सामग्री पर जाएँ

रमणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रमणम्, क्ली, (रमयतीति । रम् + णिच् + ल्युः ।) पटोलमूलम् । इति मेदिनी ॥ जघनम् । इति हेमचन्द्रः ॥ (रम् + भावे ल्युट् ।) जम्भनम् । तत्पर्य्यायः । अब्रह्मचर्य्यकम् २ ग्राम्यधर्म्मः ३ सुरतम् ४ रतम् ५ संप्रयोगः ६ निधुवनम् ७ मैथुनम् ८ रतिः ९ उपसृष्टम् १० धर्षितम् ११ क्रीडारत्नम् १२ महासुखम् १३ त्रिभद्रम् १४ योगमिथुनम् १५ अभिमानितम् १६ । इति शब्दरत्नावली ॥ (यथा, माघे । ११ । १९ । विकच कमलगन्धैरन्धयन् भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः । प्रमदमदनमाद्याद्यौवनोद्दामरामा- रमणरभसखेदस्वेदविच्छेददक्षः ॥”) क्रीडनम् । इति रमधात्वर्थदर्शनात् ॥ (रत्यु- त्पादनम् । यथा, भागवते । १० । २ । १३ । “रामेति लोकरमणाद्बलं बलवदुच्छ्रयात् ॥” “लोकस्य रमणात् रत्यत्पादनात् ।” इति तत्र स्वामी ॥ वनविशेषः । यथा, हरिवंशे । १५५ । २१ । “भाति चैत्रवनञ्चैव नन्दनञ्च वनं महत् । रमणं भावनं चैव वेणुमद्वै समन्ततः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

RAMAṆA (M) : (RAMAṆAKAM). An island near Dvārakā where, according to Chapter 38 of the Southern Text of Bhārata, there was a forest. It was in this island that Vinatā, mother of Garuḍa and Kadrū, mother of the nāgas lived. Garuḍa, after freeing his mother from her slavery evicted the nāgas from this island. (Brah- māṇḍa Purāṇa, Chapter 17). Following the eviction, many of the prominent nāgas lived in Pātāla. But, Kāliya, in fear of Garuḍa, lived in Kālindī. After his suppression by Śrī Kṛṣṇa Kāliya, with his family, as advised by Kṛṣṇa returned to Ramaṇakam. (Bhāgavata, 10th Skandha).


_______________________________
*2nd word in right half of page 640 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रमणम्&oldid=436042" इत्यस्माद् प्रतिप्राप्तम्