रमिता
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रमिता, त्रि, (रम् + णिच् + क्त । टाप् ।) रति- प्रापिता । यथा, -- “त्वरितगतिर्व्रजयुवतिस्तरणिसुताविपिनगता । मुररिपुणा रतिगुरुणा परिरमिता प्रमद- मिता ॥” इति छन्दोमञ्जरी ॥ “व्रजयुवतिर्गोपबधूः मुररिपुणा श्रीकृष्णन परि- रमिता सती प्रमदं हर्षं इता गता । किम्भूता । त्वरितगतिः त्वरिता शीघ्रा गति- र्यस्याः सा तथा । पुनः किम्भूता तरणिसुता- विपिनगता यमुनासम्बन्धिवनमुपागता । किम्भू- तेन रतिगुरुणा रतौ शृङ्गारे गुरुणा उपा- ध्यायेन । अयमभिप्रायः । स्वयं रतिकुशलो नायिकाञ्च रतिमध्यापयति ।” इति तट्टीका ॥
