रम्भः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रम्भः, पुं, (रम्भते रागमूर्च्छनादिकमनेनेति । रभि + कर्म्मणि घञ् ।) वेणुः । (रम्मते उद्यम- शीलो भवति निरन्तरमुदरभरणायेति भावः । रभि + अच् ।) वानरविशेषः । इति मेदिनी । भे, ७ ॥ महिषासुरपिता । यथा, -- श्रीऔर्व्व उवाच । “आराधितो महादेवो रम्भेण सुरवैरिणा । चिरेण स च सुप्रीतस्तपसा तस्य शङ्करः ॥ अथ तुष्टो महादेवः प्रत्यक्षं रम्भमुक्तवान् । प्रीतोऽस्मि ते वरं रम्भ वरयस्व यथेप्सितम् ॥ एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम् । अपुत्त्रोऽहं महादेव यदि ते मय्यनुग्रहः ॥ मम जन्मत्रये पुत्त्रो भवान् भवतु शङ्कर । एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः ॥ भवत्वेतद्वाञ्छितं ते भविष्यामि सुतस्तव । इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत ॥ रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलोचनः । पथि गच्छन् स रम्भोऽथ ददृशे महिषीं शुभाम् ॥ त्रिहायणीं चित्रवर्णां सुन्दरीं ऋतुशालिनीम् । स तां दृष्ट्वाथ महिषीं रम्भः कामेन मोहितः ॥ दोर्भ्यां गृहीत्वा च तदा चकार सुरतोत्सवम् । तयोः प्रवृत्ते सुरते सा तदा तस्य तेजसा ॥ दधार महिषी गर्भं तदाभून्महिषासुरः ॥” इति कालिकापुराणे ५९ अध्यायः ॥ (असौ एव जन्मान्तरे रक्तबीजो जातः । एतद्विवरणं यथा, देवीभागवते । ५ । २ । १७-४९ । व्यास उवाच । “दनोः पुत्त्रौ महाराज ! विख्यातौ क्षिति- मण्डले । रम्भश्चैव करम्भश्च द्बावास्तां दानवोत्तमौ ॥ तावपुत्त्रौ महाराज ! पुत्त्रार्थं तेपतुस्तपः । बहून् वर्षगणान् कामं पुण्ये पञ्चनदे जले ॥ करम्भस्तु जले मग्नश्चकार परमं तपः । वृक्षं रसालवटं प्राप्य स रम्भोऽग्निमसेवत ॥ पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् । ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति ॥ वार्य्यमाणापि यक्षैः सा प्रविवेश हुताशनम् । ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम् ॥ महिषस्तु चितामध्यात् समुत्तस्थौ महाबलः । रम्भोऽप्यन्यद्बपुः कृत्वा निःसृतः पुत्त्रवत्सलः ॥ रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः । अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः ॥ एवं स महिषो जातो रक्तबीजश्च वीर्य्यवान् । अवध्यस्तु सुरैर्द्दैत्यैर्मानवैश्च नृपोत्तम ! ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रम्भः [rambhḥ], 1 Sounding, roaring &c.
A support, prop.
A stick.
A bamboo.
Dust.
