रवणः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रवणः, पुं, (रौतीति । रु + “सुयुरुवृञो युच् ।” उणा० २ । ७४ । इति युच् ।) उष्ट्रः । इति हेमचन्द्रः ॥ (यथा, माघे । १२ । ९ । “उत्थातुमिच्छन् विधृतः पुरोबला- न्निधीयमाने भरभाजि यन्त्रके । अर्द्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणःस्फुटार्थताम् ॥”) कोकिलः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
रवणः, त्रि, (रु + युच् ।) शब्दनः । तीक्ष्णः । भण्डकः । चञ्चलः । इति शब्दरत्नावली ॥
