रश्मिकेतुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रश्मिकेतुः¦
“अथ रश्मिकेतुर्विभावसुजः प्रोष्य वर्षशतमाव-र्त्तकेतोश्चारान्ते उदितः कृत्तिकासु धूम्रकेतुः। अथानियतदिक्कालरूपवर्णप्रमाणसंस्थानो धूमकेतुःपराभविष्यतां देशानां राज्ञां जनपदानाञ्च वृक्षपरपर्बतवेश्मध्वजपताकाशस्त्रवर्म्मायुधावरणरथनागोष्ट्रपुरु-षशयनासनभाण्डेषु च दृश्यते। स एव दिवि म्निग्धोनिर्म्मलः प्रदक्षिणशिखो गजंनागवीथीनामुत्तरेण व्रजन्सुभिक्षक्षेमारोग्यं चावहति। दशैकविंशतिद्विषष्टि-शतधा वा दर्शनमिच्छन्ति मुनथो धूमकेतोस्तस्य चप्रागुदयान्निमित्तान्यर्वाचीनचलनमग्नेः प्रभा मत्स्यप्रधूपनंदिशां शीतोष्णविपर्य्यय इति व्यक्षिबाहुसम्भवश्च” परा॰।
