रसः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसः, पुं, (रसतीति । रस् + पचाद्यच् । यद्बा, रस्यते इति । रस आस्वादने + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।) रसनेन्द्रियग्राह्य- वस्तु । स च कालसहायभूमिवियदनिलानलसंस- र्गेण परिणामान्तरं गतः षट्प्रकारो भवति । तत्र पृथिव्यम्बुगुणबाहुल्यान्मधुरः १ तोयाग्नि- गुणबाहुल्यादम्लः २ पृथिव्यग्निगुण बाहुल्या- ल्लवणः ३ वाय्वग्निगुणबाहुल्यात् कटुकः ४ वाय्वाकाशगुणबाहुल्यात् तिक्तः ५ पृथिव्यनिल- गुणबाहुल्यात् कषायः ६ । आपो रसाना- माधारकारणं अत आप्यो नाम । अपां पृथिव्यामनुप्रवेशात् पृथिव्याप्याधारकारणमेव । तेन जलक्षिती अपि तदाधारतया रसाना- मभिव्यक्तौ कारणे । अभिव्यक्तेश्च मधुरादिरूप- मन्तरेणासम्भवान्मधुरादिविशेषेऽपि जलक्षिती कारणे । अग्न्यादयस्तु त्रयः नीरसतया मधु- रादिविशेषे प्राधान्येन निमित्तकारणम् । तद्व्यतिरेकेणाम्लादिरसाभावात् । रसाभिव्यक्तेश्च अग्न्यादिभूतत्रयसन्निधानं विनानुपलब्धेरभि- व्यक्तावपि अग्न्यादीनां कारणत्वम् । तदुक्तं चरके । “रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा । निर्व्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः ॥” एते च रसाः परस्परसंयोगात् सप्तपञ्चाशद्भ वन्ति । इति चक्रपाणिदत्तकृतद्रव्यगुणोपरि शिवदासीयटीका ॥ * ॥ (तथाच । अल्पमात्रोपयोगित्वादरुचेरप्रसङ्गतः । क्षिप्रमारोग्यदायित्वादौषधेभ्योऽधिको रसः ॥ साध्येषु भेषजं सर्व्वमीरितं तत्त्ववेदिना । असाध्येष्वपि दातव्यो रसोऽतः श्रेष्ठ उच्यते ॥ हतो हन्ति जराव्याधिं मूर्च्छितो व्याधिघातकः । वङ्गः खेचरतां धत्ते कोऽन्यः सूतात् कृपाकरः ॥” अथ रसपर्य्यायमाह । “रसेन्द्रः पारदः सूतः सूतराजश्च सूतकः । शिवतेजो रसः सप्त नामान्येवं रसस्य तु ॥” मतान्तरम् । “शिवबीजं रसः सूतः पारदश्च रसेन्द्रकः । एतानि रसनामानि तथान्यानि यथा शिवे ॥” यथा शिवे इत्यनेन शिवपर्य्यायाणामपि रस- वाचकत्वम् ॥ * ॥ अथ रसलक्षणम् । “अन्तः सुनीलो बहिरुज्ज्वलो यो मध्याह्नसूर्य्यप्रतिमप्रकाशः । शस्तोऽथ धूम्रः परिपाण्डरश्च चित्रो न योज्यो रसकर्म्मसिद्धौ ॥” नागो वङ्गो मलो वह्निश्चाञ्चल्यञ्च विषं गिरिः । असह्याग्निर्महादोषा निसर्गाः पारदे स्थिताः ॥ व्रणं कुष्ठं तथा जाड्यं दाहं वीर्य्यस्य नाशनम् । मरणं जडतां स्फोटं कुर्व्वन्त्येते क्रमान्नृणाम् ॥ तस्माद्रसस्य संशुद्धिं विदध्याद्भिषजां वरः । शुद्धोऽयममृतं साक्षाद्दोषयुक्तो रसो विषम् ॥” “शतं पञ्चाशतं वापि पञ्चविंशद्दशैव च । पञ्चैकं वा पलञ्चैव पलार्द्धं कर्षमेव च ॥ कर्षान्न्यूनो न कर्त्तव्यो रससंस्कार उत्तमः । प्रयोगेषु च सर्व्वेषु यथालाभं प्रकल्पयेत् ॥ शुभेऽह्नि विष्णुं परिचिन्त्य कुर्य्यात् सम्यक्कुमारीवटुकार्च्चनञ्च । सुलोहपाषाणसमुद्भवेऽस्मिन् दृढे च वेदाङ्गुलिगर्भमात्रे ॥ सुतप्तखल्वे निजमन्त्रयुक्तां विधाय रक्षां स्थिरसारबुद्धिः । अनन्यचित्तः शिवभक्तियुक्तः समाचरेत् कर्म्मरसस्य तज्ज्ञः ॥” “अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च । सर्व्वतः सर्व्वसर्व्वेभ्यो नमस्ते रुद्ररूपिभ्यः ॥” इति रक्षामन्त्रः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥ विस्तृतविवृतिरस्य पारदशब्देऽभिहिता ॥ शिरालसः । तत्पर्य्यायो यथा, -- “कपिनामा कपितैलं कृत्रिमं कपिलश्चलः । तुरुष्को मुक्तिमुक्तश्च पिण्डातेः सिह्लको रसः ॥” हिङ्गुलम् ॥ तत्पर्य्यायो यथा, -- “रक्तं मर्कटशीर्षञ्च हिङ्गुलं दरदो रसः ॥” इति वैद्यकरत्नमालायाम् ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसः [rasḥ], [रस्-अच्]
Sap, juice (of trees); इक्षुरसः, कुसुमरसः &c.
A liquid, fluid; यष्टव्यं पशुभिर्मुख्यैरथो बीजै रसैरिति Mb.14.91.21; न्यस्ताक्षरा धातुरसेन यत्र Ku.1.7.
Water; सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः R.1.18; Bv.2.144.
Liquor, drink; Ms.2.177.
A draught, potion.
Taste, flavour, relish (fig. also) (considered in Vaiś. phil. as one of the 24 gunas; the rasas are six; कटु, अम्ल, मधुर, लवण, तिक्त and कषाय); परायत्तः प्रीतेः कथ- मिव रसं वेत्तु पुरुषः Mu.3.4; U.2.2.
A sauce, condiment,
An object of taste; मनो बबन्धान्यरसान् विलङ्ध्य सा R.3.4.
Taste or inclination for a thing, liking, desire; रसवर्जं रसो$प्यस्य परं दृष्ट्वा निवर्तते Bg.2.59; इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति Me.114.
Love, affection; जरसा यस्मिन्नहार्यो रसः U.1.39; प्रसरति रसो निर्वृतिघनः 6.11 'feeling of love'; रसादृते V.2.21; Ku. 3.37.
Pleasure, delight, happiness; चिरात्सुतस्पर्श- रसज्ञतां ययौ R.3.26.
Charm, interest, elegance, beauty.
Pathos, emotion, feeling.
(In poetic compositions) A sentiment; नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति; K. P.1. (The rasas are usually eight: शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । भीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ but sometimes शान्तरस is added; thus making the total number 9; निर्वेदस्थायिभावो$स्ति शान्तो$पि नवमो रसः K. P.4; sometimes a tenth, वात्सल्यरस, is also added. Rasas are more or less a necessary factor of every poetic composition, but, according to Viśvanātha, they constitute the very essence of poetry; वाक्यं रसात्मकं काव्यम् S. D.3.).
Essence, pith, best part; ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसःMb.12.24.9.
A constituent fluid of the body.
Semen virile.
Mercury.
A poison, poisonous drink; as in तीक्ष्णरस- दायिनः; रसविधानकौशलैः Dk.2.8.
Any mineral metallic salt.
Juice of the sugar-cane.
Milk.
Melted butter.
Nectar; मयः कूपरसे$क्षिपत् Bhāg.7.1.59-6.
Soup, broth.
A symbolical expression for the number 'six'.
Green onion.
Myrrh.
Gold.
A metal in a state of fusion.
See रसातल; अनेन नूनं वेदानां कृतमाहरणं रसात् Mb.12.347.67.
The tongue (as the organ of taste); वाण्यां च छन्दांसि रसे जलेशम् Bhāg.8.2.27; जितं सर्वं जिते रसे 11.8.21.
(With Vaiṣṇavas.) Disposition of the heart or mind (the five Rasas are शान्ति, दास्य, साख्य, वात्सल्य and माधुर्य). -Comp. -अग्रजम् an ointment prepared from the calx of brass. -अञ्जनम् vitriol of copper, a sort of collyrium. -अधिक a.
tasty.
abounding in pleasures, splendid; Ś.7.2 (v. l.). (-कः) borax.
अन्तरम् a different taste.
different feelings or sentiments. -अभिनिवेशः intentness of affection.
अम्लः a kind of sorrel.
sour sauce.
अयनम् an elixir of life (elixir vitæ), any medicine supposed to prolong life and prevent old age; निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव R. G.
(fig.) serving as an elixir vitæ, i. e. that which gratifies or regales; आनन्दनानि हृदयैकरसायनानि Māl.6.8; मनसश्च रसायनानि U.1.37; श्रोत्र˚, कर्ण˚ &c.
alchemy or chemistry.
any medicinal compound.
butter-milk.
poison.
long pepper.
(नः) an alchemist.
N. of Garuḍa. ˚श्रेष्ठः mercury. (-नी f.)
a channel for the fluids of the body.
N. of several plants: गुडूची, काकमाची, महाकरञ्ज, गोरक्षदुग्धा and मांसच्छदा. -आत्मक a.
consisting of juice or sentiment.
elegant, beautiful.
having taste or flavour.
ambrosial; रसात्मकस्योडुपतेश्च रश्मयः Ku.5.22.
fluid, liquid, watery; सोमो भूत्वा रसात्मकः Bg.15.13.-आदानम् absorption of fluid, suction. -आधारः the sun.
आभासः the semblance or mere appearance of a sentiment; अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः S. D.
an improper manifestation of a sentiment. -आश्रयः a. embodying or representing sentiments.
आस्वादः tasting juices of flavours.
perception or appreciation of poetic sentiments, a perception of poetical charm; as in काव्यामृतरसास्वादः. -आस्वादिन् m. a bee. -आह्वः turpentine. -इक्षुः sugar-cane.
इन्द्रः mercury.
the philosopher's stone (the touch of which is said to turn iron into gold); ˚वेधजम्, संजातम् the gold.-उत्तमम् milk.
(मः) quicksilver.
Phaseolus Mungo (Mar. मूग).
milk.
उत्पत्तिः production of taste.
development of passion or sentiment.
generation of the vital fluids.
उद्भवम् a pearl.
vermilion.-उपलम् a pearl. -ऊनम् garlic; also ऊनकः. -ओदनम् rice boiled in meat-broth. -कर्पूरम् sublimate of mercury. -कर्मन् n. preparation of quicksilver. -केसरम् camphor. -क्रिया the inspissation and application of fluid remedies. -गन्धः, -न्धम् gum-myrrh.
गन्धकः myrrh.
sulphur.
गर्भम् = रसाञ्जन.
vermilion.-गुण a. possessing the quality of taste; ज्योतिषश्च विकुर्वाणा- दापो रसगुणाः स्मृताः Ms.1.78. -ग्रह a.
perceiving flavours.
appreciating or enjoying pleasures. (-हः) the organ of taste. -घन a. full of juice. -घ्नः borax.
जः sugar, molasses.
an insect produced by the fermentation of liquids. -जम् blood. -a. bred in fluids; Ms.11.143. -जातम् an ointment prepared from the calx of brass. -ज्ञ a.
one who appreciates the flavour or excellence of, one who knows the taste of; सांसारिकेषु च सुखेषु वयं रसज्ञाः U.2.22.
capable of discerning the beauty of things.
(ज्ञः) a man of taste or feeling, a critic, an appreciative person, a poet.
an alchemist.
a physician, or one who prepares mercurial or other chemical compounds. (-ज्ञा) the tongue; सखि मा जल्प तवायसी रसज्ञा Bv.2.59; (-रसज्ञता, त्वम् means
poetical skill.
alchemy.
knowledge of flavours.
discrimination.). -ज्ञानम् a branch of medical science.
ज्येष्ठः the sweet taste.
the love sentiment.-तन्मात्रम् the subtle element of taste. -तेजस् n. blood.
दः a physician; Mb.12.121.45.
a spy who administers poison; Kau. A.1.12. -द्राविन् a kind of citron. -धातु n. quicksilver. -धेनुः a cow consisting of fruit-juice. -नाथः mercury. -नायकः N. of Sacute;iva.-निवृत्तिः loss of taste. -नेत्रिका red arsenic. -पाकजः molasses. -पाचकः a cook. -प्रबन्धः any poetical composition, particularly a drama. -फलः the cocoanut tree. -भङ्गः the interruption or cessation of a sentiment.-भवम् blood. -भस्मम् n. oxide of mercury. -भेदः a preparation of quicksilver. -मलम् impure excretions.-मातृका the tongue. -योगः juices mixed scientifically.
राजः, लोहः = रसाञ्जन.
quick-silver. -वादः alchemy. -विक्रयः sale of liquors. -विद्धम् artificial gold.-शास्त्रम् the science of alchemy. -शोधनः borax. (-नम्) purification of mercury. -सरोरुहम् a red lotus.-सिद्ध a.
accomplished in poetry, conversant with sentiments; जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः Bh.2.24.
skilled in alchemy. -सिद्धिः f. skill in alchemy.-सिन्दूरम् a cinnabar made of zinc, mercury, blue vitriol and nitre. -स्थानम् vermilion.
