सामग्री पर जाएँ

रसधेनुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसधेनुः, स्त्री, (रसकल्पिता धेनुः ।) दानार्थे- क्षुरसनिर्म्मितधेनुः । यथा, -- होतोवाच । “रसधेनुं महाराज कथयामि समासतः । अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशास्तरे ॥ रसस्य तु घटं राजन् संपूर्णमैक्षवस्य च । तद्वत् संकल्पयेत् प्राज्ञश्चतुर्थांशेन वत्सकम् ॥ इक्षुदण्डमयाः पादा रजतक्षुरसंयुताः । सुवर्णशृङ्गाभरणां वस्त्रपुच्छां घृतस्तनीम् ॥ पुष्पकम्बलसंयुक्तां शर्करामुखजिह्विकाम् । दन्ताः फलमयास्तस्याः पृष्ठताम्रमयीं शुभाम् ॥ पुष्परोमान्तु राजेन्द्र मुक्ताफलकृतेक्षणाम् । सप्तव्रीहिसमायुक्तां चतुर्द्दिक्षु च दीपिकाम् ॥ सर्व्वोपस्करसंयुक्तां सर्व्वगन्धादिवासिताम् । चत्वारि तिलपात्राणि चतुर्द्दिक्षु निवेशयेत् ॥ ब्रह्मणे वेदविदुषे श्रोत्रियायाहिताग्नये । पुराणज्ञे विशेषेण साधुवृत्ताय धीमते ॥ तादृशाय प्रदातव्या रसधेनुः कटम्बिने । सर्व्वलक्षणयुक्ताय श्रोत्रियाय कुटुम्बिने ॥ रसधेनुः प्रदातव्या सर्व्वकामेण नित्यदा । दाता स्वर्गमवाप्नोति सर्व्वपातकवर्ज्जितः ॥ दाता च ग्राहको वाथ एककालमभोजनः । सोमपानफलं तस्य सर्व्वक्रतुफलं लभेत् ॥ दीयमानान्तु पश्यन्ति ते यान्ति परमां गतिम् । धेनुञ्च पूजयित्वाग्रे गन्धधूपस्रगादिभिः ॥ पूर्ब्बोक्तैरेव मन्त्रैस्तु ततस्तां प्रार्थयेत् सुधीः । प्रार्थनापूर्ब्बकं भक्त्या द्विजाग्र्याय निवेदयेत् ॥ दश पूर्व्वान् परांश्चैव आत्मानञ्चैकविंशकम् । प्रापयेत् परमं स्थानं स्वर्गान्नावर्त्तते पुनः ॥ एषा ते कथिता राजन् रसधेनुरनुत्तमा । ददस्व च महाराज परं स्थानमवाप्नुहि ॥ य इदं पठते नित्यं शृणुयादथ भक्तितः । सर्व्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥” इत्यादि वाराहपुराणे श्वेतोपाख्याने रसधेनु- माहात्म्यं समाप्तम् ॥

"https://sa.wiktionary.org/w/index.php?title=रसधेनुः&oldid=161054" इत्यस्माद् प्रतिप्राप्तम्