सामग्री पर जाएँ

रसनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसनम्, क्ली, (रस् + भावे ल्युट् ।) स्वादनम् । ध्वनिः । इति मेदिनी ॥ (यथा, बृहत्संहिता- याम् । ४६ । ८८ । “कम्पोद्वर्त्तनवैकृत्यं रसनं दरणं क्षितेः ॥”)

रसनम्, क्ली, स्त्री, (रस्यते रसयत्यनेन वा । रस + करणे ल्युट् ।) जिह्वा । इति मेदिनी ॥ सा च जलेन्द्रियम् । यथा, -- “नित्यतादि प्रथमवत् किन्तु देहमयोनिजम् । इन्द्रियं रसनं सिन्धुर्हिमादिर्व्विषयो मतः ॥” इति भाषापरिच्छेदः ॥ “प्रथमवदिति पृथिव्या इवेत्यर्थः । तथा हि जलं द्विविधं नित्यमनित्यश्च । परमानुरूपं नित्यं द्व्यणुकादिकं सर्व्वमनित्यम् । अवयवसमवेतञ्चा- नित्यजलमपि त्रिविधम् । शरीरेन्द्रियविषय- भेदात् । किन्तु पृथिवीतोययोर्यो विशेषस्तमाह किन्त्विति । अयोनिजमेवेत्यर्थः । जलीयं शरीरं अयोनिजं वरुणलोके प्रसिद्धमिति । इन्द्रियं रसनं जलीयम् । तथा हि रसनं जलीयं गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् । शक्तु- रसाभिव्यञ्जकोदकवत् । रसनासन्निकर्षे व्यभि- चारवारणाय द्रव्यत्वं हेतौ देयम् । विषयं दर्शयति सिन्धुर्हिमादिरिति । सिन्धुः समुद्रः हिमं तुषारः । आदिना सरित्कासारकरकादिः सर्व्वो ग्राह्यः ।” इति सिद्भान्तमुक्तावली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसनम् [rasanam], [रस्-ल्युट्]

Crying, screaming, roaring, sounding, tinkling, noise or sound in general.

Thunder, rumbling or muttering of clouds.

Taste, flavour.

The organ of taste, the tongue; इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति T. S.; Bg.15.9; न जयेद्रसनं यावज्जितं सर्वं जिते रसे Bhāg.11.8.21.

Perception, appreciation, sense; सर्वे$पि रसनाद्रसाः S. D. 244. -नः Phlegm.

"https://sa.wiktionary.org/w/index.php?title=रसनम्&oldid=395110" इत्यस्माद् प्रतिप्राप्तम्