सामग्री पर जाएँ

रसमूर्च्छन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसमूर्च्छनम्, क्ली, (रसस्य पारदस्य मूर्च्छनम् ।) पारदस्य मूर्च्छाकरणम् । यथा, -- “त्र्युषणं त्रिफलाबन्ध्याकन्दैः क्षुद्रद्बयान्वितैः । चित्रकोर्णानिशाक्षारकन्याककनकद्रवैः ॥ सूतं कृतेन यूषेण वारान् सप्ताभिमूर्च्छयेत् । इत्थं संमूर्च्छितः सूतस्त्यजेत् सप्तापि कञ्चुकान् ॥” इति भावप्रकाशः ॥ (तथास्य विवृतिः । “गन्धकेन रसं प्राज्ञः सुदृढं मर्द्दयेद्भिषक् । कज्जलाभो यदा सूतो विहाय घनचापलम् ॥ दृश्यतेऽसौ तदा ज्ञेयो मूर्च्छितो रसकोविदैः । असौ रोगचयं हन्यादनुपानस्य योगतः ॥” इति मूर्च्छनम् ॥ * ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)

"https://sa.wiktionary.org/w/index.php?title=रसमूर्च्छन&oldid=161078" इत्यस्माद् प्रतिप्राप्तम्