सामग्री पर जाएँ

रसशोधनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसशोधनम्, क्ली, (रसः शोध्यतेऽनेनेति । शुध् + णिच् + ल्युट् । रसं पारदं शोधयत्यनेनेति वा ।) टङ्कणः । इति हेमचन्द्रः ॥ (रसस्य शोधनम् ।) पारदशुद्धिः । यथा, -- “कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्वृहतीविमिश्रितैः । फलत्रिकेणापि विमर्द्दितो रसो दिनत्रयं सर्व्वमलैर्व्विमुच्यते ॥ एवं कदर्थितः सूतः षण्ढो भवति निश्चितम् । बह्वौषधीकषायेण स्वेदितः स बली भवेत् ॥ सर्पाक्षीचिञ्चिकावन्द्याभृङ्गारैः स्वेदितो बली । ततः सपावकद्रावैः स्विन्नः स्यादतिदीप्तिमान् ॥” इति भावप्रकाशः ॥ (मतान्तरम् । “जयन्त्या वर्द्धमानस्य चार्द्रकस्य रसेन च । वायस्याश्चानुपूर्व्व्यैवं मर्द्दनं रसशोधनम् ॥ एषां प्रत्येकशस्तावन्मर्द्दयेत् स्वरसेन च । यावच्च शुष्कतां याति सप्तवारं विचक्षणः ॥ उद्धृत्योष्णारनालेन मृद्भाण्डे क्षालयेत् सुधीः । सर्व्वदोषविनिर्म्मुक्तः सप्तकञ्चुकवर्ज्जितः ॥ जायते शुद्धसूतोऽयं युज्यते सर्व्वकर्म्मसु ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)

"https://sa.wiktionary.org/w/index.php?title=रसशोधनम्&oldid=161086" इत्यस्माद् प्रतिप्राप्तम्