सामग्री पर जाएँ

रससिन्दूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रससिन्दूरम्, क्ली, (रसजातं सिन्दूरमिति ।) औषधविशेषः । तस्य नामान्तरं सिन्दूररसः । यथा, -- “शुद्धसूतस्य गृह्णीयाद्भिषग्भागचतुष्टयम् । शुद्धगन्धस्य भागैकं तावत् कृत्रिमगन्धकम् ॥ अथवा पारदस्यार्द्धं शुद्धगन्धकमेव हि । तयोः कज्जलिकां कुर्य्याद्दिनमेकं विवर्ज्जयेत् ॥ मृत्तिकां वाससा सार्द्धं कुट्टयेदतियत्नतः । तया वारत्रयं सम्यक् काचकूपीं प्रलेपयेत् ॥ मृत्तिकां शोषयित्वा तु कूप्यां कज्जलिकां क्षिपेत् । तां कूपीं वालुकायन्त्रे स्थापयित्वा रसं पचेत् ॥ अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् । गृह्णीयादूर्द्ध्वसंलग्नं सिन्दूरसदृसं रसम् ॥” इति भावप्रकाशः ॥ (मतान्तरम् । “पृथक् समं समं कृत्वा पारदं गन्धकन्तथा । नवसारं धूमसारं स्फटिकं याममात्रकम् ॥ निम्बूरसेन संमर्द्द्य काचकूप्यां निवेशयेत् । मुखे पाषाणखटिकां दत्त्वा मुद्रां प्रलेपयेत् ॥ सप्तभिर्मृत्तिकावस्त्रैः पृथक्संशोध्य वेष्टयेत् । सच्छिद्रायां मृदस्थाल्यां कूपिकां तां निवेशयेत् । पूरयेत् सिकतापूरैरागलं मतिमान् भिषक् । निवेश्य चुल्ल्यां दहनं मन्दं मध्यं खरं क्रमात् ॥ प्रज्वाल्य द्वादशं यामं स्वाङ्गशीतं समुद्धरेत् । स्फोटयित्वा तु मुक्ताभमूर्द्धलग्नं वलिं त्यजेत् । अधःस्थं रससिन्दूरं सर्व्वरोगेषु योजयेत् ॥” इति रससिन्दूरम् ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रससिन्दूर¦ न॰ रसजातं सिन्दूरम्। पारदजाते सिन्दूरभेदेतत्पाकविधिः भावप्र॰ उक्तो यथा
“शुद्धसूतस्य गृह्णीयाद् भिषग्भागचतुष्टयम्। शुद्ध-गन्धस्य भागैकं तावत् कृत्रिमगन्धकम्। अथ वा पारदा-{??}र्द्वं शुद्धगन्धकमेव हि। तयोः कज्जलिकां कुर्णाद्दिन-मेकं विमदयेत्। मृत्तिकां वाससा सार्द्धं कुट्टयेदति॰यत्नतः। तथा वारत्रयं सम्यक् काचकूपीं प्रलेपयेत्। नृत्तिनां शोपयित्वा तु कूप्यां कज्जलिकां क्षिपेत्। [Page4797-b+ 38] तां कूपीं वालुकायन्त्रे स्थापयित्वा रसं पचेत्। अग्निंनिरन्तरं दद्याद् यावद्दिनचतुष्टयम्। गृह्वीयादूर्ध्व-संलग्नं सिन्दूरसदृशं रसम्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रससिन्दूर¦ n. (-रं) A sort of factitious cinnabar, made with zinc, mer- cury, blue vitriol, and nitre, fused together; the compound is used as an escharotic. E. रस mercury and सिन्दूर minium.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रससिन्दूर/ रस--सिन्दूर n. a sort of factitious cinnabar (used as an escharotic) W.

"https://sa.wiktionary.org/w/index.php?title=रससिन्दूर&oldid=395523" इत्यस्माद् प्रतिप्राप्तम्