रसाञ्जन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाञ्जनम्, क्ली, (रसजातमञ्जनं इति मध्यपदलोपी कर्म्मधारयः ।) रसजाताञ्जनविशेषः । रसवत् इति भाषा ॥ तत्पर्य्यायः । रसगर्भम् २ तार्क्ष्य- शैलम् ३ । इत्यमरः ॥ रसोद्भूतम् ४ रसाग्र- जम् ५ कृतकम् ६ बालभैषज्यम् ७ दार्व्वी- क्वाथोद्भवम् ८ रसराजः ९ वर्य्याञ्जनम् १० रसनार्भम् ११ अग्निसारम् १२ । अस्य गुणाः । हिमत्वम् । तिक्तत्वम् । चक्षुष्यत्वम् । मधुरत्वम् । कटुत्वम् । रक्तपित्तविषच्छर्द्दिहिक्कापस्मार- नाशित्वञ्च । “रीत्यान्तु ध्मायमानायां तत्किट्टन्तु रसाञ्जनम् । तदभावे तु कर्त्तव्यं दार्व्वीक्वाथसमुद्भबम् ॥” इति राजनिर्घण्टः ॥ अपि च । “दार्व्वीक्वाथसमं क्षीरं पादं पक्त्वा यथाघनम् । तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम् ॥ रसाञ्जनं तार्क्ष्यशैलं रसगर्भञ्च तार्क्ष्यजम् । रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् । उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् ॥” इति भावप्रकाशः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाञ्जन नपुं।
रसाञ्जनम्
समानार्थक:रसाञ्जन,रसगर्भ,तार्क्ष्यशैल
2।9।101।2।4
तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके। कर्परी दार्विकाक्वाथोद्भवं तुत्थं रसाञ्जनम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाञ्जन¦ न॰ रसजातं पित्तलधातुजमञ्जनम्। खनामख्याते
“रीत्यान्तु ध्मायमानायां तत्किट्टन्तु रसाञ्जनम्। तदभावेतु कर्त्तव्यं दर्वीक्वाथसमुद्भवम्” इत्युक्ते
१ पदार्थे राजनि॰तद्विधिश्च भावप्र॰ उक्तो यथा
“दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यथा घनम्। तदारसाञ्जनाख्यं तन्नेत्रयोः परमं हितम्। रसाञ्जनं कटुश्लेष्मविषनेत्रविकारनुत्। उष्णं रसायनं तिक्तं छेदनंव्रणदोषहृत्”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाञ्जन¦ n. (-नं) A sort of collyrium, prepared either with the calx of brass, or with the Amomum anthorrhiza. E. रस juice, &c., अञ्जन collyrium.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाञ्जन/ रसा n. vitriol of copper or a sort of collyrium prepared from it with the addition of Curcuma or( accord. to some) from the calx of brass with Amomum Anthorrhiza or( accord. to others) from lead-ore Sus3r.