सामग्री पर जाएँ

रसातलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसातलम्, क्ली, (रसायाः तलं निम्नभागस्थलोक- विशेषः ।) पातालम् । इत्यमरः ॥ (यथा, महाभारते । १२ । ३४७ । ५६ । “जग्राह वेदानखिलान् रसातलगतो हरिः ॥”) पातालभेदः । यथा, -- “अतलं वितलञ्चैव नितलञ्च तलातलम् ॥ महातलञ्च सुतलं सप्तमञ्च रसातलम् ॥ पातालभेदाः सप्तैव नामतः कीर्त्तिता अमी । तत्र पातालमेकैकं दशसाहस्रयोजनम् ॥” इति शब्दमाला ॥ (इदमेव निवातकवचानां निवासस्थानम् । तथा च देवीभागवते । ८ । २० । ८ -- १२ । “ततोऽधस्ताच्च विवरे रसातलसमाह्वये । दैतेया निवसन्त्येव पणयो दानवाश्च ये ॥ निवातकवचा नाम हिरण्यपुरवासिनः । कालेया इति च प्रोक्ताः प्रत्यनीका हवि- र्भुजाम् ॥ महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा । सकलेशस्य च हरेस्तेजसा हतविक्रमाः ॥ विलेशया इव सदा विवरे निवसन्ति हि । ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम् ॥ मन्त्रवर्णाभिरसुरास्ताडिता विभ्यति स्म ह ॥”)

"https://sa.wiktionary.org/w/index.php?title=रसातलम्&oldid=161101" इत्यस्माद् प्रतिप्राप्तम्