रसाभास
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाभासः, पुं, (रस इव आभासते इति । आ + भास् + अच् ।) अनौचित्यविशिष्टरसः । तस्य लक्षणं यथा, -- “अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः ।” अनौचित्यञ्चात्र रसानां भरतादिप्रणीतलक्ष- णानां सामग्रीरहितत्वे सत्येकदेशयोगित्वोप- लक्षणपरं बोध्यम् । तच्च बालव्युत्पत्तये एक- देशतो दर्श्यते । उपनायकसंस्थायां मुनिगुरु- पत्नीगतायाञ्च । बहुनायकविषयायां रतौ तथानुभयनिष्ठायां प्रतिनायकनिष्ठत्वे तद्वदधम- पात्रतिर्य्यगादिगते शृङ्गारे अनौचित्यम् । रौद्रे गुर्व्वादिगतकोपे । शान्ते च हीननिष्ठे । गुर्व्वा- द्यालम्बने हास्ये । ब्रह्मवधाद्युत्साहे । अधम- पात्रगते तथा वीरे । उत्तमपात्रगतत्वे भयानके ज्ञेयमेवमन्यत्र । तत्र रतेरुपनायकनिष्ठत्वे यथा मम । “स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी क्षौणीमावृणुते तमालमलिनच्छायातमः- सन्ततिः । तन्मे सुन्दर ! मुञ्च कृष्ण ! सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः ॥” बहुनायकनिष्ठत्वे यथा, -- “कान्तास्त एव भुवनत्रितगेऽपि मन्ये येषां कृते सुतनु ! पाण्डुरयं कपोलः ।” अनुभयनिष्ठत्वे यथा, -- मालतीमाधवे नन्दनस्य मालत्याम् । पश्चा- दुभयनिष्ठत्वेऽपि प्रथममेकनिष्ठत्वे रतेराभासत्व- मिति श्रीमल्लोचनकाराः । तत्रोदाहरणं यथा रत्नावल्याम् । सागरिकाया अन्योऽन्यदर्शनात् प्राक् वत्सराजे रतिः । प्रतिनायकनिष्ठत्वे यथा हयग्रीववधे । हयग्रीवस्य जलक्रीडावर्णने । अधमपात्रगतत्वे यथा, -- “जघनस्थलनद्धपत्रवल्ली- गिरिमल्लीकुसुमानि कापि भिल्ली । अवचित्य गिरौ पुरो निषण्णा स्वकचानुत्कचयाञ्चकार भर्त्त्रा ॥” तिर्य्यग्गतत्वे यथा, -- “मल्लीमतल्लीषु वनान्तरेषु वल्ल्यन्तरे वल्लभमाह्वयन्ती । पञ्चद्विपञ्ची कलनादभङ्गी सङ्गीतमङ्गीकुरुते स्म भृङ्गी ॥” आदिशब्दात्तापसादयः । रौद्राभासो यथा, -- “रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहु- र्म्मुक्ताकर्णेमपेतभीर्धृतधनुर्व्वाणो हरेः पश्यतः । आध्मातः कटुकोक्तिभिः स्वमसकृद्दोर्व्विक्रमं कीर्त्तयन् अंसास्फोटपटुर्युधिष्ठिरमसौ हन्तुं प्रविष्टो- ऽर्ज्जुनः ॥” भयानकाभासो यथा, -- “अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय विभ्यद्दिवसानि कौशिकः ॥” स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः । एव- मन्यत्र । इति साहित्यदर्पणे ३ परिच्छेदः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाभास¦ पु॰ रस इव आभासते आ + भास--अच्।
“अनौ-चित्यप्रवृत्तत्वे आभासो रसभावयोः” सा॰ द॰ उक्तेपश्वादिपरनायकादिगतशृङ्गारादौ रसे।
“अनौचित्यञ्चाब्र रसानां भरतादिप्रणीतलक्षणानां साम-ग्रीरहितत्वे सत्येकदेशयोगित्योपलक्षणपरं बोध्यं तनुबालव्युत्पत्तये एकदेशतो दर्श्यते।
“उपनायकसंख्यायांमुनिगुरुपत्रीगतायाञ्च। बहुनायकविषयायां रतोतथाऽनुभयनिष्ठायाम्। प्रतिनायकनिष्ठत्वे तद्वदधम-पात्रतिर्य्यगादिगते। शृङ्गारेऽनौचित्यं रौद्रे गुर्वादिगत-कोपे शान्ते च हीननिष्ठे गुर्वाद्यालम्बने हास्ये। ब्रह्मबधाद्युत्साहेऽधमपात्रगते तथा वीरे। उत्तमपात्र-गतत्वे भयानके ज्ञेयमेवमन्यत्र”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाभास¦ m. (-सः) Concealment of sentiment, attributing evident emo- tions to some cause different from the real one. E. रस sentiment, आभास unreal exposition or display.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाभास/ रसा m. the mere semblance or false attribution or improper manifestation of a sentiment Sa1h.
