सामग्री पर जाएँ

रसाभास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसाभासः, पुं, (रस इव आभासते इति । आ + भास् + अच् ।) अनौचित्यविशिष्टरसः । तस्य लक्षणं यथा, -- “अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः ।” अनौचित्यञ्चात्र रसानां भरतादिप्रणीतलक्ष- णानां सामग्रीरहितत्वे सत्येकदेशयोगित्वोप- लक्षणपरं बोध्यम् । तच्च बालव्युत्पत्तये एक- देशतो दर्श्यते । उपनायकसंस्थायां मुनिगुरु- पत्नीगतायाञ्च । बहुनायकविषयायां रतौ तथानुभयनिष्ठायां प्रतिनायकनिष्ठत्वे तद्वदधम- पात्रतिर्य्यगादिगते शृङ्गारे अनौचित्यम् । रौद्रे गुर्व्वादिगतकोपे । शान्ते च हीननिष्ठे । गुर्व्वा- द्यालम्बने हास्ये । ब्रह्मवधाद्युत्साहे । अधम- पात्रगते तथा वीरे । उत्तमपात्रगतत्वे भयानके ज्ञेयमेवमन्यत्र । तत्र रतेरुपनायकनिष्ठत्वे यथा मम । “स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी क्षौणीमावृणुते तमालमलिनच्छायातमः- सन्ततिः । तन्मे सुन्दर ! मुञ्च कृष्ण ! सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः ॥” बहुनायकनिष्ठत्वे यथा, -- “कान्तास्त एव भुवनत्रितगेऽपि मन्ये येषां कृते सुतनु ! पाण्डुरयं कपोलः ।” अनुभयनिष्ठत्वे यथा, -- मालतीमाधवे नन्दनस्य मालत्याम् । पश्चा- दुभयनिष्ठत्वेऽपि प्रथममेकनिष्ठत्वे रतेराभासत्व- मिति श्रीमल्लोचनकाराः । तत्रोदाहरणं यथा रत्नावल्याम् । सागरिकाया अन्योऽन्यदर्शनात् प्राक् वत्सराजे रतिः । प्रतिनायकनिष्ठत्वे यथा हयग्रीववधे । हयग्रीवस्य जलक्रीडावर्णने । अधमपात्रगतत्वे यथा, -- “जघनस्थलनद्धपत्रवल्ली- गिरिमल्लीकुसुमानि कापि भिल्ली । अवचित्य गिरौ पुरो निषण्णा स्वकचानुत्कचयाञ्चकार भर्त्त्रा ॥” तिर्य्यग्गतत्वे यथा, -- “मल्लीमतल्लीषु वनान्तरेषु वल्ल्यन्तरे वल्लभमाह्वयन्ती । पञ्चद्विपञ्ची कलनादभङ्गी सङ्गीतमङ्गीकुरुते स्म भृङ्गी ॥” आदिशब्दात्तापसादयः । रौद्राभासो यथा, -- “रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहु- र्म्मुक्ताकर्णेमपेतभीर्धृतधनुर्व्वाणो हरेः पश्यतः । आध्मातः कटुकोक्तिभिः स्वमसकृद्दोर्व्विक्रमं कीर्त्तयन् अंसास्फोटपटुर्युधिष्ठिरमसौ हन्तुं प्रविष्टो- ऽर्ज्जुनः ॥” भयानकाभासो यथा, -- “अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय विभ्यद्दिवसानि कौशिकः ॥” स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः । एव- मन्यत्र । इति साहित्यदर्पणे ३ परिच्छेदः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसाभास¦ पु॰ रस इव आभासते आ + भास--अच्।
“अनौ-चित्यप्रवृत्तत्वे आभासो रसभावयोः” सा॰ द॰ उक्तेपश्वादिपरनायकादिगतशृङ्गारादौ रसे।
“अनौचित्यञ्चाब्र रसानां भरतादिप्रणीतलक्षणानां साम-ग्रीरहितत्वे सत्येकदेशयोगित्योपलक्षणपरं बोध्यं तनुबालव्युत्पत्तये एकदेशतो दर्श्यते।
“उपनायकसंख्यायांमुनिगुरुपत्रीगतायाञ्च। बहुनायकविषयायां रतोतथाऽनुभयनिष्ठायाम्। प्रतिनायकनिष्ठत्वे तद्वदधम-पात्रतिर्य्यगादिगते। शृङ्गारेऽनौचित्यं रौद्रे गुर्वादिगत-कोपे शान्ते च हीननिष्ठे गुर्वाद्यालम्बने हास्ये। ब्रह्मबधाद्युत्साहेऽधमपात्रगते तथा वीरे। उत्तमपात्र-गतत्वे भयानके ज्ञेयमेवमन्यत्र”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसाभास¦ m. (-सः) Concealment of sentiment, attributing evident emo- tions to some cause different from the real one. E. रस sentiment, आभास unreal exposition or display.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसाभास/ रसा m. the mere semblance or false attribution or improper manifestation of a sentiment Sa1h.

"https://sa.wiktionary.org/w/index.php?title=रसाभास&oldid=395642" इत्यस्माद् प्रतिप्राप्तम्