रसाला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसाला, स्त्री, (रसान् आलातीति । आ + ला + कः । टाप् ।) रसना । दूर्व्वा । विदारी । इति मेदिनी ॥ द्राक्षा । इति शब्दरत्नावली ॥ शिख- रिणी । तत्पर्य्यायः । मार्ज्जिता २ । इत्यमरः ॥ तस्याः करणप्रकारो यथा, -- “आदौ माहिषमम्लमम्बुरहितं दध्याढकं शर्करां शुभ्रां प्रस्थयुगोन्मितां शुचिपटे किंञ्चिच्च कञ्चित् क्षिपेत् । दुग्धेनाद्धघनेन मृण्मयनवस्थाल्यां दृढं स्रावये- देलाबीजलवङ्गचन्द्रमरिचैर्योग्यैश्च तद्योजयेत् ॥ भीमेन प्रियभोजनेन रचिता नाम्ना रसाला स्वयं श्रीकृष्णेन पुरा पुनःपुनरियं प्रीत्या समा- स्वादिता । एषा येन वसन्तवर्ज्जितदिने सेव्या परं नित्यश- स्तस्य स्यादतिवीर्य्यवृद्धिरनिशं सर्व्वेन्द्रियाणां बलम् ॥ ग्रीष्मे तथा शरदि ये रविशोषिताङ्गा ये च प्रमत्तवनितासुरतातिखिन्नाः । ये चापि मार्गपरिसर्पणशीर्णगात्रा- स्तेषामियं वपुषि पोषणमाशु कुर्य्यात् ॥ रसाला शुक्रला बल्या रोचनी वातपित्तजित् । दीपनी बृंहणी स्निग्धा मधुरा शिशिरा सरा । रक्तपित्तं तृषां दाहं प्रतिश्यायं विनाशयेत् ॥” इति राजनिर्घण्टः ॥ अपि च । “दध्नोऽर्द्धाढकमीषदम्लमधुरं खण्डस्य चन्द्रद्युतेः प्रस्थं क्षौद्रपलञ्च पञ्च हविषः शुण्ठ्याश्चतुर्म्माष- कान् । एलामाषचतुष्टयं मरिचतः कर्षं लवङ्गं तथा धृत्वा शुक्लपटे शनैः करतलेनोन्मथ्य विस्रा- वयेत् ॥ मृद्भाण्डे मृगनाभिचन्दनरससृष्टेऽगुरूद्धूपिते कर्पूरेण सुगन्धितं तदखिलं संलोड्य संस्थाप- येत् । स्वस्वार्थे मथुरेश्वरेण रचिता ह्येषा रसाला स्वयं भोक्तुर्म्मन्मथदीपनी सुखकरी कान्तेव नित्यं प्रिया ॥” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसाला स्त्री।

दधिमधुशर्करामरिचार्द्रादिभिः_कृतलेह्यः

समानार्थक:रसाला,मार्जिता

2।9।44।1।2

कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता। स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः॥

पदार्थ-विभागः : खाद्यम्,पानीयम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसाला f. curds mixed with sugar and spices MBh. Hariv. R.

रसाला f. the tongue L.

रसाला f. दूर्वाgrass L.

रसाला f. Desmodium Gangeticum L.

रसाला f. a vine or grape L.

रसाला f. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=रसाला&oldid=395742" इत्यस्माद् प्रतिप्राप्तम्