रसेश्वर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसेश्वर¦ पु॰ रसः पारद ईश्वर इव तद्देहरसजातत्वात्।
१ ईश्वरतुल्ये रसे। तत्त्वज्ञानार्थं देहस्थैर्य्यसम्पादनद्वारामुक्तिहेतुत्वमस्य माहेश्वरभेदाः प्रतिपेदिरे तन्मतञ्च सर्व-दर्शनसंग्रहे प्रदर्शितं यथा
“अपरे माहेश्वराः परमेश्वरतादात्म्यबादिनोऽपि पिण्ड-स्थैर्य्ये सर्वामिमता जीवन्मक्तिः सेत्स्यतीत्यास्थाय पिण्ड-स्थैर्य्योपाय पारदादिपदवेदनीयं रसमेव सङ्गिरन्ते रसस्यपारदत्वं संसारपरपारप्रापणहेतुत्वेन तदुक्तम्[Page4799-a+ 38] इतःपरः ग्रन्थः पारदशब्दे
४३
१३ पृष्ठे प्रदर्शितः।
“प्रकारान्तरेणापि जीवन्मुक्तौ नेयं वाचोयुक्ति-र्युक्तिमतीति चेन्न षट्स्वपि दर्शनेषु देहपातानन्तरंमुक्तेरुक्ततया तत्र विश्वासानुपपत्त्या निर्विचिकित्स-प्रवृत्ते{??}पपृत्तः। तदप्युक्तं तत्रैव
“षड्दर्शनेऽपिमुक्तिस्त दीर्शता पिण्डपातने। करामलकवत्सापि प्रत्यक्षानोपलभ्यते। तस्मात्तं रक्षयेत्पिण्डं रसैश्चैव रसा-यनैरिति”। गोविन्दभगवत् पादाचर्य्यैरपि
“इति धन-शरीरभोगान्मत्वाऽनित्यान् सदैव यतनीयम्। मुक्तौ साच ज्ञानात् तच्चाभ्यासात् स च स्थिरे देहे” इत्युक्तम्। ननुविनश्वरतया वृश्यमानस्य देहस्य कथं नित्यत्वमवसीयतेइति चेन्मैवं मंस्थाः, षाट्कौशिकस्य शरीरस्यानित्यत्वेऽपिरसाभ्रकपदाभिलप्यहरगौरीसृष्टिजातस्य नित्यत्वोपपत्तेःतथाच रसहृदये
“ये चात्यक्तशरीरा हरगौरीसूष्टि-जान्तरं प्राप्ताः। वन्द्यास्ते रससिद्धा मन्त्रगणः किङ्करोयेषामिति”। तस्माज्जीवन्मुक्तिं समीहमानेन योगिनाप्रथमं दिव्यतनुर्विधेया। हरगौरीसृष्टिसंयोगजनितत्वञ्चरसस्य हरजत्वेनाभ्रकस्य गोरीसम्भवत्वेन तत्तदात्म-कत्वमुक्तम्
“अभ्रकस्तव वीजन्तु मम वीजन्तु पारदः। अनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनमिति”। अत्यल्प-मिदमुच्यते देवदैत्यमुनिमानवादिषु बहवो रससामर्थ्याद्दिव्यंदेहमाश्रित्य जीवन्मुक्तिमाश्रिताः श्रूयन्ते रसेश्वरसि-द्धान्ते
“देवाः केचिस्महेशाद्या दैत्याः काव्यपुरःसराः। मुनयो बालखिल्याद्या नृपाः सोमेश्वरादयः। गोविन्द-भगवत्पादाचार्य्यो गोविन्दनामकः। चर्वटिः कपिलोव्याडिः कापालिः कन्दलायनः। एतेऽन्ये बहवः सिद्धाजीवन्मुक्ताश्चरन्ति हि। तनुं रसमयीमाप्य तदात्मककथाचणाः” इति। अयमेवास्यार्थः परमेश्वरेण परमेश्वरींप्रति प्रपञ्चितःऽ। इतःपरो ग्रन्थः पारदशब्दे
४३
१३ पृ॰ दर्शितः। तत्प्रपञ्चस्तु गोविन्दभगवत्पादाचार्य्यसर्वज्ञरामेश्वरभट्टा-रकप्रभृतिमिः प्राचीनैराचार्य्यैर्निरूपित इति ग्रन्थ-भूयस्त्वभयादुदास्यते। न च रसशास्त्रं धातुवादार्थ-मेवेति मन्तव्यं देहबन्धद्वारा मुक्तेरेव परमपयोजनत्वात्तदुक्तं रसार्णवे
“लोहवन्धस्त्वया देव! यद्दत्तं परमी-शितः!। तं देहबन्धमाचक्ष्व येन स्यात् खेचरी गतिः। यथा लोहे तथा देहे कर्त्तव्यः सूतकः सता। समानंकुरुते देवि! प्रत्ययं देहलोहयोः। पूर्वं लोहे परी-[Page4799-b+ 38] क्षेत पश्चाद्देहे प्रयोजयेत्” इति। ननु सच्चिदानन्दात्मक-परतत्त्वस्फुरणादेव मुक्तिसिद्धौ किमनेन दिव्यदेहसम्पा-दनप्रयासेनेति चेत्तदेतदवार्त्तं वार्त्तशरीरालाभे तद्वा-र्त्ताया अयोगात्। तदुक्तं रसहृदये
“गलितानल्पवि-कल्पः सर्वाध्वविवर्जितश्चिदानन्दः। स्फुरितोऽप्यस्फुरित-तनोः करोति किं जन्तुवर्गस्येति। यं जरया जर्जरितंकासश्वासादिदुःखविशदञ्च। योग्यं तं न समाधौप्रतिहतबुद्धीन्द्रियप्रसरम्। बालः षोडशवर्षो विषय-रसाखादलम्पटः परतः। यातविवेको वृद्धो मर्त्यःकथमाप्नुयान्मुक्तिमिति”। ननु जीवत्वं नाम संसारित्वंतद्विपरीतत्वं मुक्तत्वं तथाच परस्परविरुद्धयोः कथ-मेकायतनत्वमुपपन्नं स्यादिति चेत्तदनुपपन्नं विकल्पानुप-पत्तेः मुक्तिस्तावत् सर्वतीर्थकरसम्मता सा किं ज्ञेयपदेनिविशते न वा चरमे शशविषाणकल्पा स्यात् प्रथमे नजीवनं वर्जनीयमजीवतो ज्ञातृत्वानुपपत्तेः। तदुक्तंरसेश्वरसिद्धान्ते
“रसाङ्कमेयमार्गोक्ते जीवमोक्षोऽस्त्यधो-मनाः। प्रमाणान्तरवादेषु युक्तिभेदावलम्बिषु। ज्ञान-ज्ञेयमिदं विद्धि सर्वतन्त्रेषु सम्मतम्। नाजीवन् ज्ञा-स्यति ज्ञेयं यदतोऽस्त्येव जीवनम्” इति। न चेदमदृष्ट-चरमिति मन्तव्यं विष्णुत्वामिमतानुसारिभिः नृपञ्चास्य-शरीरस्य नित्यत्वोपपादनात्। तदुक्तम् साकारसिद्धौ
“सच्चिन्नित्यनिजाचिन्त्यपूर्णानन्दैकविग्रहम्। नृपञ्चास्य-महं वन्दे श्रीविष्णुस्वामिसम्मतम्” इति। नन्वेतत्सावयवं रूपवदवभासमानं नृकण्ठीरवाङ्गं सदिति नसङ्गच्छत इत्यादिनाक्षेपपुरःसरं सनकादिप्रत्यक्षेण
“सहस्र-शीर्षा पुरुषः” इत्यादिश्रुत्या
“तमद्भुतं बालकमम्बुजेक्षणंचतुर्भुजं शङ्खगदाद्यदायुधम्” इत्यादिपुराणलक्षणेन प्र-माणत्रयेण सिद्धं नृपञ्चाननाङ्गं कथमसत् स्यादिति। सदादीनि विशेषणानि गर्भश्रीकान्तमिश्रैः विष्णुस्वामि-चरणपरिणतान्तःकरणैः प्रतिपादितानि। तस्मादस्म-दिष्टदेहनित्यत्वमत्यन्तादृष्टं न भवतीति पुरुषार्थकामुकैःपुरुषैरेष्टव्यम्। अत एवोक्तम्
“आयतनं विद्यानां-मूलं धर्मार्थकाममोक्षाणाम्। श्रेयः परं किमन्य-च्छरीरमजरामरं विहायैकमिति”। अजरामरीकरण-समर्थश्च रसेन्द्र एव तदाह
“एकोऽसौ रसराजः शरीर-मजरामरं कुरुते” इति। किं वर्ण्यते रसस्य माहात्म्यंयस्य दर्शनस्पर्शनादिनापि महत् फलं भवति। तदुक्तं रसा-र्णवे
“दर्शनात् स्पर्शनात्तस्य भक्षणात् स्मरणादपि। पूजना-[Page4800-a+ 38] द्रसदानाच्च दृश्यते षड्विधं फलम्। केदारादीनि लि-ङ्गानि पृथिव्यां यानि कानिचित्। तानि दृष्ट्वा तु यत्-पुण्यं तत् पुण्यं रसदर्शनादित्यादिना”। अन्यत्रापि
“काश्यादिसर्वलिङ्गेभ्यो रसलिङ्गार्चनं शिवम्। प्राप्यतेयेन तल्लिङ्गं भोगारोग्यामृताजरम्” इति। रसनि॰न्दायाः प्रत्यवायोऽपि दर्शितः
“प्रमादाद्रसनिन्दायाःश्रुतावेनं स्मरेत् सुधीः। द्राक् त्यजेन्निन्दकं नित्यं नि-न्दया पूरिताशुभम्” इति। तस्मादस्मदुक्तया रीत्यादिव्यं देहं सम्पाद्य योगाभ्यासवशात् परतत्त्वे दृष्टेपुरुषार्थप्राप्तिर्भवति। तदा
“भ्रूयुगमध्यगतं यत् शिखि-विद्युत्सूर्य्यवज्जगद्भासि। केषाञ्चित् पुण्यदृशामुन्मीलतिचिन्मयं ज्योतिः। परमानन्दैकरसं परमं ज्योतिः-स्वभावमविकल्पम्। विगलितसकलक्लेशं ज्ञेयं शान्तंस्वसंवेद्यम्। तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयंजगत् पश्यन्। उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नो-तीति”। श्रुतिश्च
“रसो वै सः रसं ह्येवायं लब्ध्वानन्दीभवतीति”। तदित्थं भवे नान्योदुःखभरतरणोपायो रसएवेति सिद्धम्। तथाच रसस्य परब्रह्मणा साम्यमितिप्रतिपादकः श्लोकः
“यः स्यात् प्रावरणाविमोचनधियांसाध्यः प्रकृत्या पुनः सम्पन्नो सहते न दीव्यति परंवैश्वानरे जाग्रति। जातो यद्यपरं न वेदयति च स्व-स्मात् स्वयं द्योतते यो ब्रह्मैव स दैन्यसंसृतिभयात्पायादसौ पारदः” इति।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसेश्वर/ रसे m. " lord of fluids " , quicksilver
