रसोनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसोनः, पुं, (रसेनैकेनोनः ।) रसुनः । इति राज- निर्घण्टः ॥ (तस्योत्पत्तिर्यथा, -- “राहोरमृतचौर्य्येण लूनात् ये पतिता मलात् । अमृतस्य कणा भूमौ ते रसोनत्वमागताः ॥ द्बिजा नाश्नन्ति तमतो दैत्यदेहसमुद्भवम् । साक्षादमृतसम्भूतेर्ग्रामणीः सरसायनम् ॥” इति वाभटे उत्तरस्थाने ३९ अध्यायः ॥ “अथ वीर्य्यञ्च वक्ष्यामि रसोनस्य महामते । रसैश्च पञ्चभिर्युक्तो रसोनस्तेन वर्जितः ॥” “दध्ना वातादिशमनो रसोनो विहितो बुधैः । जाङ्गलानि रसान्येव भोजनार्थे प्रदापयेत् ॥” इति हारीते कल्पस्थाने तृतीयेऽध्याये ॥ अथास्यगुणाः । “रसोनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः । रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ॥ भग्नसन्धानकृत्कण्ठ्यो गुरुः पित्तास्रवृद्धिदः । बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥” इति च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ अन्यद्विवरणमस्य रसोनकशब्दे लशुनशब्दे च द्रष्टव्यम् ॥)
