सामग्री पर जाएँ

रसोनक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसोनकः, पुं, (रसोन + स्वार्थे कन् ।) रसुनः । तत्पर्य्यायः । “लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् । अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥” तस्योत्पत्तिर्यथा, -- “यदामृतं वैनतेयो जहार सुरसत्तमात् । तदा ततोऽपतद्बिन्दुः भुरसोनोऽभवद्भुवि ॥ पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्ज्जितः । तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥” अस्यावयवगुणाः । “कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः । नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः । बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः ॥” अस्य भक्षणगुणाः । “रसोनो बृंहणो वृष्यो स्निग्धोष्णः पाचनः सरः । रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ॥ भग्नसन्धानकृत् कण्ठ्यो गुरुः पित्तास्रवृद्धिदः । बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥ हृद्रोगजीर्णज्वरकुक्षिशूल- विबन्धगुल्मारुचिकासशोफान् । दुर्नामकुष्ठानलसादजन्तु- समीरणश्वासकफांश्च हन्ति ॥ मद्यं मांसं तथाम्लञ्च हितं लशुनसेविनाम् ॥ व्यायाममातपं रोषमतिनीरपयो गुडम् । रसोनमश्नन् पुरुषस्त्यजेदेतन्निरन्तरम् ॥” इति भावप्रकाशः ॥ (तथास्यान्या विवृतिर्यथा, -- “अमृतमथने जातः सुरासुरग्रहो महान् । जहार वैनतेयश्च चञ्चुना त्रिदिवं गतः ॥ संग्रामश्रमसम्प्राप्ते श्रमवेगप्रधाविते । आरूढे वैक्लवं प्राप्ते च्युता ह्यमृतबिन्दवः ॥ सकृत् सन्दूषिते देहे पतितास्तत्र संस्थिताः । तस्मात् कालवशाज्जातं दुर्भिक्षं द्बादशाब्दि- कम् ॥ विशुष्काः कानने सर्व्वा वृक्षकाण्डप्रतानिकाः । तस्माच्च कानने सर्व्वे प्रकृष्टं गहनं गताः ॥ तेषां मध्ये जराग्रस्तो गतिहीनोऽतिजर्ज्जरः । सयष्टिः सरणिक्षुण्णः शीर्णदन्तावलीमुखः ॥ सव्यक्तस्थैः क्षुधापन्नैः ऋषिभिस्तत्र विश्रुतः । सोऽपि क्षुधातुरः सर्व्वां पर्य्यट्त्युर्व्वरां महीम् ॥ कुत्रचित् पुण्ययोगेन दृष्टवान् विटपान् शुभान् । नीलशैवालसङ्काशान् शाद्बलान् बहुलान् भुवि । क्षुधासंपीडनेनापि भुक्तवान् साद्वलानपि ॥ षण्मासानन्तरे शुष्कान् विटपान् तदनन्तरम् । भुक्तवान् कन्दकान् सोऽपि मासमेकं तथा ऋषिः ॥ पश्चात् सुभिक्षे सञ्जाते सर्व्वे चैकत्र संस्थिताः । सोऽपि वृद्धो युवा भूत्वा गतस्तत्र च यत्र ते ॥ तं दृष्ट्वा विस्मयापन्नाः पप्रच्छुः किं कृतं त्वया । नोक्तवान् सोऽपि किञ्चिच्च रुषा तैः शापित- स्ततः ॥ यत्त्वया स्वादितं द्रव्यं तदभक्ष्यं द्बिजातिभिः । दुर्गन्धमपि चित्रञ्च तस्माज्जातं रसोनकम् ॥” “तेन रसोनकं नाम विख्यातं भुवनत्रये । कुक्कुटाण्डनिभं ग्रीष्मे शीर्णपर्णं समुद्धरेत् ॥ बद्ध्वा पुटे सुनिर्गुप्तं धारयेत्तन्महामते । दीप्ताग्निदर्शनात्तेन म्रियते दीर्य्यते भुवि ॥ वर्षासु शिशिरे चैव कारयेन्मात्रया युतम् । रामठं जीरके द्वे च अजमोदाकटुत्रयम् ॥ घृतसौवर्च्चलोपेतं वातरोगे विशेषतः । मातुलुङ्गरसेनापि शूलानाहे प्रकीर्त्तितः ॥” इति हारीते कल्पस्थाने तृतीयेऽध्याये ॥ अस्यान्यत् द्विजाभक्ष्यत्वकारणादिकं रसोनशब्दे द्रष्टव्यम् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसोनक पुं।

लशुनम्

समानार्थक:महौषध,लशुन,गृञ्जन,अरिष्ट,महाकन्द,रसोनक

2।4।148।2।5

लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम्. लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रसोनक/ रसो m. id. Sus3r. L.

"https://sa.wiktionary.org/w/index.php?title=रसोनक&oldid=395904" इत्यस्माद् प्रतिप्राप्तम्