रस्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रस्यम्, क्ली, (रसात् भुक्तान्नादिपरिपाकात् आगत- मिति । रस + यत् ।) रक्तम् । इति शब्द- चन्द्रिका ॥ (यथा, महाभारते । १४ । ५० । ३२ । “यन्नैव गन्धिनो रस्यं नरूपं स्पर्शशब्दवत् ॥” रसयुक्ते, त्रि । यथा, भगवद्गीतायाम् । १७ । ८ । “रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥”)
