राघवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राघवः, पुं, (रघोरपत्यमिति । रघु + अण् ।) रामचन्द्रः । (यथा, रघुः । १२ । ३२ । “रावणावरजा तत्र राघवं मदनातुरा । अभिपेदे निदाघार्त्ता व्यालीव मलयद्रुमम् ॥” अजः । यथा, रघुः । ८ । १६ । “यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः ॥” दशरथः । यथा, रामायणे । २ । ६४ । १ । “वधमप्रतिरूपं तु महर्षेस्तस्य राघवः । विलपन्नेव धर्म्मात्मा कौशल्यामिदमब्रवीत् ॥” रघुवंशीयमात्रम् । यथा, तत्रैव । २ । ६४ । २५ । “अपि ह्यद्य कुलं न स्याद्राघवाणां कुतो भवान् ॥”) समुद्र-महामत्स्यविशेषः । इति मेदिनी ॥ वे, ४८ ॥ (यथा, कृद्वृत्तौ प्रथमपादे दुर्गसिंहः । “अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः । तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति राघवः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राघवः [rāghavḥ], [रघोर्ग्रोत्रापत्यम् अण्]
A descendant of Raghu, especially Rāma.
A kind of large fish; क्रोडे क्रीडतु कस्य केलिकलहत्यक्तार्णवो राघवः Bv.1.55.
Sea, ocean.
