राजकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राजकम्, क्ली, (राज्ञां समूहः । राजन् + “गोत्रोक्षो- ष्ट्रोरभ्रराजेति ।” ४ । २ । ३९ । इति वुञ् ।) नृप- समूहः । इत्यमरः । २ । ८ । ३ ॥ यथा, मार्क- ण्डेये । १०९ । ६ । “हृष्टपुष्टमतीवासीत् तस्मिन् राजन्यशेषतः । राजकं सकलं चोर्व्व्यां पौरजानपदो जनः ॥” राजन् + स्वार्थे कन् ।) राजनि, पुं, । (यथा, हरिवंशे भविष्यपर्व्वणि । २४ । ९ । “तवाङ्गं तिलशः कृत्वा श्वभ्यो दास्यामि राजक ॥” राज् + ण्वुल् ।) दीप्तिकारके, त्रि ॥
