राजगामि
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राजगामि, [न्] त्रि, (राजानं गच्छतीति । गम् + णिनिः ।) राजसम्बन्धि । यथा, -- “अनृतञ्च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीकनिर्ब्बन्धः समानि ब्रह्महत्यया ॥” इति मानवे ११ अध्यायः ॥ “राजनि वा स्तेनादीनां परेषां मरणफलदोषा- भिधानम् ।” इति कुल्लूकभट्टः ॥ अपि च । “अपुत्त्रस्य धनं पत्न्यभिगामि तदभावे मातृगामि तदभावे भ्रातृगामि तदभावे भ्रातृपुत्त्रगामि तदभावे सकुल्यगामि तदभावे बन्धुगामि तद- भावे शिष्यगामि तदभावे सहाध्यायिगामि तदभावे ब्राह्मणधनवर्ज्जं राजगामि ।” इति दायभागग्रन्थधृतविष्णुवचनम् ॥
