राजनीतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राजनीतिः, स्त्री, (राज्ञां नीतिः ।) राज्ञां नयः । यथा, चाणक्यपण्डितकृतप्रथमः श्लोकः । “नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् । सर्व्वबीजमिदं शास्त्रं चाणक्यं सारसंग्रहम् ॥” सा यथा, -- “गदितं वलिशुक्राभ्यां श्रुत्वा भागवतोऽसुरः । प्राह धर्म्मार्थसंयुक्तं प्रह्नादो वाक्यमुत्तमम् ॥ यदायत्यां क्षमं राजन् ! यद्धितं भुवनस्य ह । अविरोधेन धर्म्मस्य अर्थस्योपार्ज्जनञ्च यत् ॥ सर्व्वसत्वानुगमनं कामवर्गफलञ्च यत् । विवेकिनो महीपालाः पालयन्ति यथा प्रजाः । तथा तानपि देवेशः पालयत्यनिशं हरिः ॥ प्रजानां पालनं दानं द्वेऽपि राज्ञां शुभावहे । द्वाभ्यां ये वर्जिता भूपास्ते विज्ञेया नृपाधमाः ॥ दुष्टानां शासनञ्चैव शिष्टानां प्रतिपालनम् । प्रकुर्व्वन्तो महीपालाश्चिरं नन्दन्ति भूतले ॥ न्यायेनोपार्ज्जितं वित्तं यत्नाद्रक्षेन्महीपतिः । निर्व्वित्तो हि महीपालो विपत्त्यां न हि निस्त- रेत् ॥ नृपाः कल्याणमिच्छन्तो निजराज्यशुभाशुभम् । पश्यन्ति नित्यं विप्रेन्द्र ! सत्वराश्चारचक्षुषः ॥ परचक्रभयं यावत् नायाति चिन्तयेद्भयम् । आगते तु भये भूप आचरेन्निर्भयो यथा ॥ ज्ञातौ वापि च मित्रे वा पुत्ते वापि च मन्त्रिणि । कुर्य्यान्मुखेन गाम्भीर्य्यं मनसा प्रेम केवलम् ॥ मन्त्रिणो ज्ञातयः पुत्त्राः प्रजाश्च भ्रातरस्तथा । गाम्भीर्य्यहीनं भूपालं मन्यन्ते न हि भूपवत् ॥ तिष्ठन्ति प्रथमं दूरे वसन्ति पुरतस्तदा । लोकाः श्रियं यदिच्छन्ति त्यक्तगाम्भीर्य्यभूपतेः । एकस्य मन्त्रिणो राज्ञा चिरं राजत्वमिच्छता । कर्त्तव्याः सकले राज्ये वृद्धयो नैव भूसुर ॥ अत्यन्तलब्धवृद्धीनां भृत्यानां सम्पदं हरेत् । तस्यां सम्पदि भूपालो भृत्यमन्यं नियोजयेत् ॥ मूर्खः स्त्रीविजितो राजा गीतवाद्यरतः सदा । चतुरङ्गबलैर्हीनः सहसा विपदं व्रजेत् ॥ स्वाचारग्रहणं सत्त्वं स्ववाक्यप्रतिपालनम् । गाम्भीर्य्यञ्चेति भूपानां लक्षणानि द्बिजोत्तम ! ॥ स कथं नृपतिर्यस्तु प्रतापेन विवर्ज्जितः । स कथं नृपतिर्येन न जिता परमेदिनी ॥ जितायां परमेदिन्यां यावत् पादं व्रजेन्नृपः । प्रतिपादेऽश्वमेधस्य फलं प्राप्नोति चाक्षयम् ॥ परभूमिजयाकाङ्क्षी हतो वा नृपतिर्युधि । तदा गच्छेत् परं धाम वियुक्तः सर्व्वपातकैः ॥ युधि प्राप्तजयो राजा प्राप्नोति परमं पदम् । स साहसप्राप्तमृत्युर्द्दिवीन्द्रसम्पदं लभेत् ॥ त्यक्तसत्त्वं त्यक्तशस्त्रं पलायनपरायणम् । योद्धारं युधि यो हन्यात् स भूपो यात्यधो- गतिम् ॥ पलायनपरो युद्धे तद्धन्ता च द्बिजोत्तम ! । तावुभावपि तिष्ठेतां नरकेऽत्यन्तदुःसहे ॥ युधि साहसवान् योद्धा तद्धन्ता च महीसुर । तिष्ठेतां द्वावपि स्वर्गे यावच्चन्द्रदिवाकरौ ॥ बहुनात्र किमुक्तेन संक्षेपादुच्यते मया । प्रजापालनकृद्राजा कदाचिन्नावसीदति ॥” इति पाद्मे क्रियायोगसारे २० अध्यायः ॥
