राजन्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राजन्यः, पुं, (राज्ञोऽपत्यमिति । राजन् + “राजश्वशुरात् यत् ।” ४ । १ । १३७ । इति यत् ।) क्षत्त्रियः । इत्यमरः ॥ (यथा, ऋग्वेदे । १० । ९० । १२ । “ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥”) राजपुत्त्रः । (राजति दीप्यते इति । राज् + “राजेरन्यः ।” उणा० ३ । १०० । इति अन्यः ।) अग्निः । इत्युणादिकोषः ॥ क्षीरिकावृक्षः । इति जटाधरः ॥
