सामग्री पर जाएँ

राजन्वान्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

राजन्वान्, त्रि, (राजास्त्यस्यास्मिन्निति वा । राजन् + प्रशंसायां मतुप् । “राजन्वान् सौराज्ये ।” ८ । २ । १४ । इति निपातनात् नलोपाभावः ।) सुराजयुक्तदेशः । इत्यमरः ॥ “प्रजापालनादि- स्वधर्म्मपरायणराजयुक्ते देशे राजन्वात् राजा विद्यतेऽस्येति मोङ्मझपादिति प्रशंसायां वतुः । यदुक्तं तन्त्रान्तरे । ‘भूम्नि निन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः ॥’ इति स्वमते अस्त्यर्थे भमादयोऽमी अर्था अर्थात्तु लभ्यन्त एव । निपातनान्नलोपाभावः । न सौराज्ये राज्ञो नस्य लुङ्मताविति परे । सुराज्ञि स्वधर्म्मपरत्वात् शोभना राजानोऽत्रेति नार्च्चायां स्वतेरिति अनिषेधः । देशो लोकोप- लक्षणं सुराज्ञि लोके इत्यर्थः ।” इति तट्टीकायां भरतः ॥ (यथा, रघुः । ६ । २२ । “कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसङ्कुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=राजन्वान्&oldid=161296" इत्यस्माद् प्रतिप्राप्तम्