राजमार्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजमार्गः, पुं, (राज्ञो मार्गः ।) राजपथः । तद्विवरणं यथा, -- “राजमार्गं सौधयुक्तं यः करोति पतिव्रते । वर्षाणामयुतं सोऽपि शक्रलोके महीयते ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्यायः ॥ अपि च । “त्रिंशद्धनूंषि विस्तीर्णो देषमार्गस्तु तैः कृतः । विंशं धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥ धनूंषि दश विस्तीर्णः श्रीमान्राजपथः कृतः । नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥ धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः । त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरथ्यका ॥ जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम् । वृतीपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः । अवकरः परिवारः पादमात्रः समन्ततः ॥” इति देवीपुराणे गोपुरद्वारलक्षणं नामाध्यायः ॥ (अत्रामेध्योत्सर्गे दण्डविधानं कर्त्तव्यम् । यथा, मनुः । ९ । २८२ । “समुत्सृजेत् राजमार्गे यस्त्वमेध्यमनापदि । स द्वौ कार्षापणौ दद्यादमेध्याञ्चाशु शोघयेत् ॥” नीतिः । यथा, हरिवंशे भविष्यपर्व्वणि । ५४ । २ । “ज्ञानविज्ञानसम्पन्नौ राजमार्गविशारदौ । युयुधाते महारङ्गे राक्षसेन दुरात्मना ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजमार्ग¦ पु॰ राजयोग्यः मार्गः।

१ राजपथे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजमार्ग¦ m. (-र्गः) A royal road, one passable for horses and elephants, and forty cubits broad. E. राज a king, and मार्ग a road.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजमार्ग/ राज--मार्ग m. the -kking's highway , a royal or main road , principal street (passable for horses and elephants) Mn. MBh. etc.

राजमार्ग/ राज--मार्ग m. (met.) the great path Sarvad.

राजमार्ग/ राज--मार्ग m. the way or method of -kkings , procedure of -kkings (as warfare etc. ; 676537 -विशारदmfn. skilled in it) Hariv.

"https://sa.wiktionary.org/w/index.php?title=राजमार्ग&oldid=503804" इत्यस्माद् प्रतिप्राप्तम्