सामग्री पर जाएँ

राजयक्ष्मा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

राजयक्ष्मा, [न्] पुं, (राज्ञश्चन्द्रस्य क्षयकारको यक्ष्मा । राजा चासौ यक्ष्मा चेति वा ।) क्षयरोगः । इति हेमचन्द्रः ॥ अस्य पर्य्याय- निदानौषधादयो यक्ष्मशब्दे द्रष्टव्याः ॥ * ॥ (असौ हि सर्व्वरोगाणामाकरः । यथा, माघे । २ । ९६ । “मावेदि यदसावेको जेतव्यश्चेदिराडिति । राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ॥” “तथाह वाग्भटः । अनेकरोगानुगतो बहुरोगपुरःसरः । राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ॥ नक्षत्राणां द्विजानाञ्च राज्ञोऽभूत् यदयं पुरा । यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥” इति तट्टीकायां मल्लिनाथः ॥) महापातकजचिह्नमप्ययम् । यथा, विष्णुः । अथ नरकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये लक्षणानि भवन्ति । कुष्ठ्यतिपातकी ब्रह्महा यक्ष्मी सुरापः श्यावदन्तकः सुवर्ण- हारी कुनखी गुरुतल्पगो दुश्चर्म्मा । इत्यादि कूर्म्मपुराणम् ॥ “क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौचकम् ॥” महारोगिणः पापरोगाष्टकान्यतमरोगवतः । ते च उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधु- मेहो भगन्दरः उदरोऽश्मरी इत्यष्टौ पाप- रोगा नारदोक्ताः । इति शुद्धितत्त्वम् ॥ * ॥ तस्योत्पत्तिरूपस्थानानि यथा, -- “अथ कोपवतस्तस्य दक्षस्य सुमहात्मनः । चक्रुर्लोकहितार्थाय चन्द्रस्य क्षयवृद्धये ॥ महादेवोऽपि चन्द्रार्द्धं स्वरूपं परमात्मनः । जग्राह देवैर्विधिना शिरसाभ्युदितो भृशम् ॥ यत्तेजः परमं नित्यमजमव्ययमक्षयम् । तत्स्वरूपाश्चन्द्रकलाः शापतस्तु क्षयं गताः ॥ प्रविशन्ति यदा ज्योतिरानन्दमजरं परम् । योगिनान्तु तदा तेषां चित्तं तल्लीनमेष्यति ॥ महादेवशिरःसंस्थे लीने चित्ते सुधानिधौ । चन्द्रद्वारा भवेन्मुक्तिरित्येवं वैदिकी श्रुतिः ॥ एतज्ज्ञात्वा महादेवः क्षयवृद्ध्या विना कृतम् । हिताय सर्व्वलोकानां जग्राह शिरसा विधुम् ॥ चन्द्रज्योत्स्नासमायोगादोषध्यो यान्ति वृद्धये । सर्व्वौषधीषु वृद्धासु प्रवर्त्तन्ते ततोऽध्वराः ॥ अध्वरेषु प्रवृत्तेषु स्वान् स्वान भागांस्तु देवताः । परिगृह्णन्ति पितरस्तथा कव्यानि भूरि च ॥ अमृतं ब्रह्मणा सृष्टं यद्देवेभ्यः पूरातनम् । तेन तृप्यन्ति हीना ये हव्यभागेन दैवताः ॥ यज्ञेनाप्यायिते तच्च ज्योत्स्नाभिर्वृद्धिमेति वै । यज्ञज्योत्स्ना विना भूतं तच्च स्यात् क्षीण- मन्यथा ॥ अतोऽमृतस्य यज्ञस्य चन्द्रमाः कारणं स्वयम् । अतोऽस्य दक्षशापात्तु रक्षायै तच्चिकीर्षितम् ॥ अद्यापि कृष्णपक्षेऽपि सुधा संपीयते सुरैः । तेजः सूर्य्यं याति शम्भोश्चन्द्रार्द्धं ज्योत्स्निकातथा । पुनश्च शुक्लपक्षे तु शेषोदेति कला ततः । ज्योत्स्नाद्वितीयो भागस्तु तेजोभागो द्वितीयकः ॥ अन्वेत्युग्रशिरश्चन्द्रात् सूर्य्यविम्बाद्यथाक्रमम् । कलाः षोडश चन्द्रस्य तत्रैका शम्भुशेखरे ॥ सितासितावुभौ पक्षौ शेषाणामुदयक्षयौ । इति वः सर्व्वमाख्यातं विभक्तश्चन्द्रमा यथा ॥ ब्रह्मणा पर्व्वतश्रेष्ठे तथा तच्चन्द्रभागतः । यज्ञभागे स्थिते यस्माद्देवार्थमकरोद्धिधुम् । कव्ये स्थितेऽपि पित्रर्थं तिथिवृद्धिक्षयौ यथा ॥ इदं पुण्यतमाख्यानं यः शृणोति सकृन्नरः । राजयक्ष्मा तस्य कुले न कदाचिद्भविष्यति ॥ यक्ष्मणा परिभूतो यः शृणोति वचनं विधेः । अचिरात् यक्ष्मणा मुक्तः स भवेन्नरसत्तमः ॥ इदं स्वस्त्ययनं पुण्यं गुह्यात् गुह्यतरं परम् । यः शृणोत्येकचित्तः सन् स महापुण्यभाग्- भवेत् ॥” इति कालिकापुराणे २१ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--to be worshipped in house-building. M. २५३. ३०, ४२; २६८. २३.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

YAKṢMĀ (RĀJAYAKṢMĀ) : The disease of consump- tion (Tuberculosis). There is a story in Mahābhārata which says that this disease was created by Dakṣa Prajā- pati. (For more details see under Candra).


_______________________________
*7th word in left half of page 893 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=राजयक्ष्मा&oldid=436128" इत्यस्माद् प्रतिप्राप्तम्