राजराजः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राजराजः, पुं, (राज्ञामपि राजा धनाधिपत्वात् । “राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) कुबेरः । इत्यमरः । १ । १ । ६३ ॥ (यथा, किरातार्ज्जुनीये । ५ । ५१ । “इत्युक्त्वा सपदि हितंप्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये । सोत्कण्टं किमपि पृथासुतः प्रदध्यौ सन्धत्ते भृशमरतिं हि सद्वियोगः ॥”) सार्व्वभौमः । (यथा, रामायणे । २ । ९२ । १४ । “प्रयाणमिति च श्रुत्वा राजराजस्य योषितः । हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥”) सुधाकरः । इति मेदिनी । जे, ३६ ॥
