सामग्री पर जाएँ

राजवल्लभः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

राजवल्लभः, पुं, (राज्ञां वल्लभः ।) राजादनी । राजाम्रः । राजबदरः । इति राजनिर्घण्टः ॥ नारायणदासकविराजकृतद्रव्यगुणग्रन्थविशेषः । यथा, -- “श्रीनारायणदासेन कविराजेन धीमता । प्रतिसंस्क्रियते द्रव्यगुणोऽयं राजवल्लभः ॥” इति तस्य द्वितीयश्लोकः ॥ नृपप्रिये, त्रि ॥ (यथा, मार्कण्डेये । ४९ । ४९ । “दुष्टप्रायो विना क्षेत्रैः परभूमिचरो बली । ग्राम एवाक्रिमीसंज्ञो राजवल्लभसंश्रयः ॥”)

"https://sa.wiktionary.org/w/index.php?title=राजवल्लभः&oldid=161364" इत्यस्माद् प्रतिप्राप्तम्