राजसः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राजसः, त्रि, (रजसो भवः । रजस् + अण् ।) रजोगुणोद्भवः । लल्लक्षणं यथा, -- “आरम्भरुचिताधैर्य्यमसत्कार्य्यपरिग्रहः । विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥” आरम्भरुचिता फलार्थं कर्म्मानुष्ठानशीलता ॥ * ॥ संक्षेपतस्तल्लक्षणं यथा, -- “येनास्मिन् कर्म्मणा लोके ख्यातिमिच्छति पुष्कलाम् । न च शोचत्यसम्पत्तौ तद्विज्ञेयन्तु राजसम् ॥” तस्माद्गतिर्यथा, -- “देवत्वं सात्त्विका यान्ति मनुष्यत्वञ्च राजसाः । तिर्य्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः ॥” तद्गतिप्रकारा यथा, -- “झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः । द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः ॥ राजानः क्षत्त्रियाश्चैव राज्ञश्चैव पुरोहिताः । वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः ॥ गन्धर्व्वा गुह्यका यक्षा विबुधानुचराश्च ये । तथैवाप्सरसः सर्व्वा राजसीषूत्तमा गतिः ॥” इति वामने १२ अध्यायः ॥ राजसाहारा यथा, -- “कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥” राजसयज्ञो यथा, -- “अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥” राजसतपो यथा, -- “सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥” * ॥ राजसदानं यथा, -- “यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥” इति श्रीभगवद्गीतायाम् १७ अध्यायः ॥ राजसत्यागो यथा, -- “दुःखमित्येव यत् कर्म्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसत्यागं नैव त्यागफलं लभेत् ॥” राजसज्ञानं यथा, -- “पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्- विधान् । वेत्ति सर्व्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥” राजसकर्म्म यथा, -- “यत्तु कामेप्सुना कर्म्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥” * ॥ राजसकर्त्ता यथा, -- “रागी कर्म्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः ॥” राजसी बुद्धिर्यथा, -- “यया धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥” राजसी धृतिर्यथा, -- “यया तु धर्म्मकामार्थान् धृत्या धारयते- ऽर्ज्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥” राजससुखं यथा, -- “विषयेन्द्रियसंयोगात् यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत् सुखं राजसं स्मृतम् ॥” इति श्रीभगवद्गीतायाम् १८ अध्यायः ॥ * ॥ राजसपुराणानि यथा, -- “ब्रह्माण्डं ब्रह्मवैवर्त्तं मार्कण्डेयं तथैव च । भविष्यं वामनं ब्राह्मं राजसानि निबोधत ॥” ॥ राजसस्मृतयो यथा, -- “च्यावनं याज्ञवल्क्यञ्च आत्रेयं दाक्षमेव च । कात्यायनं वैष्णवञ्च राजसाः स्वर्गदा मताः ॥” इति पाद्मोत्तरखण्डे ४३ अध्यायः ॥
