सामग्री पर जाएँ

राजसर्षपः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

राजसर्षपः, पुं, (सर्षपाणां राजा श्रेष्ठत्वात् । पर- निपातः ।) सर्षपविशेषः । राजसर्षा इति भाषा ॥ राइ इति केचित् ॥ तत्पर्य्यायः । कृष्णिका २ राजिका ३ सूरी ४ मुष्ठकः ५ । मुष्ठक इत्यत्र व्यष्टक इति वा पाठः । इति रत्नमाला ॥ क्षवः ६ क्षुताभिजननः ७ । क्षुताभिजनन इत्यत्र क्षुधाभिजनन इति वा पाठः । इति हेमचन्द्रः ॥ कृष्णा ८ तीक्ष्ण- फला ९ राजी १० कृष्णसर्षपाख्या ११ । अस्य गुणाः । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । वात- शूलगुल्मकण्डुकुष्ठव्रणनाशित्वम् । पित्तदाह- प्रदत्वञ्च । इति राजनिर्घण्टः ॥ (चतुर्व्विंशति- त्रसरेणुपरिमित-परिमाणविशेषः । यथा, मनुः । ८ । १३३ । “त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥” “त्रसेत्यादि । अष्टौ त्रसरेणवो लिक्षैका परि- माणेन ज्ञेया तास्तिस्रो लिक्षा राजसर्षपो ज्ञेयः । ते राजसर्षपास्त्रयो गौरसर्षपो ज्ञेयः ॥” इति तट्टीकायां कुल्लूकः ॥)

"https://sa.wiktionary.org/w/index.php?title=राजसर्षपः&oldid=161394" इत्यस्माद् प्रतिप्राप्तम्