सामग्री पर जाएँ

राजादनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

राजादनम्, क्ली, (राजभिरद्यते इति । अद भक्षणे + कर्म्मणि ल्युट् ।) क्षीरिका । पियालः । किंशुकः । इति मेदिनी । ने, २०५ ॥ (यथा, सुश्रुते । १ । ४६ । लवणवर्गे । “दाडिमामलकं द्राक्षा खर्ज्जूरं सपरूषकम् । राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते ॥” पुंलिङ्गान्तोऽपि दृश्यते । इत्यमरः । २ । ४ । ४५ ॥ हेमचन्द्रश्च । ४ । २०८ ॥ क्षीरिकार्थे पर्य्यायो यथा, -- “राजादनः क्षीरवृक्षः पालाशी वानरप्रियः ॥” इति वैद्यकरत्नमालायाम् ॥ किंशुकार्थे पर्य्यायो यथा, -- “वातपोथः पलाशः स्याद्वानप्रस्थश्च किंशुकः । राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः ॥”)

"https://sa.wiktionary.org/w/index.php?title=राजादनम्&oldid=161422" इत्यस्माद् प्रतिप्राप्तम्