राजानुजीविन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राजानुजीवी, [न्] त्रि, (राज्ञः अनुजीवी ।) राजोपजीवी । तस्य कर्म्माणि यथा, -- मत्स्य उवाच । “यथानुवर्त्तितव्यं स्यान्मनो राजोपजीविना । तथा ते कथयिष्यामि निबोध गदतो मम ॥ आज्ञा सर्व्वात्मना कार्य्या स्वशक्त्या रविनन्दन । आक्षिप्य वचनन्तस्य न वक्तव्यं तथा वचः ॥ अनुकूलं प्रियन्तस्य वक्तव्यं ज्ञानसंसदि । रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् ॥ परार्थमस्य वक्तव्यं स्वस्थे चेतसि भार्गव । स्वार्थः सुहृद्भिर्व्वक्तव्यो न स्वयन्तु कदाचन ॥ कार्य्याभिघातः सर्व्वेषु रक्षितव्यः प्रयत्नतः । न च हिंस्यं धनं किञ्चिन्नियुक्तेन च कर्म्मणि ॥ नोपेक्ष्यं भाष्यमाणञ्च तथा राज्ञः प्रियो भवेत् । आराधनासु सर्व्वासु सुप्तवच्च विचेष्टते ॥ कथासु दोषं क्षिपति वाक्यभङ्गं करोति च । लक्ष्यते विमुखैश्चैव गुणसंकीर्त्तने कृते ॥ दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्म्मणि । विरक्तलक्षणं ह्येतत् शृणु रक्तस्य लक्षणम् ॥ दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् । कुशलादिपरिप्रश्नी संप्रयच्छति चासनम् ॥ विरक्तदर्शने चास्य रहस्ये च न शङ्कते । जायते हृष्टवदनः श्रुत्वा तस्य तु तत्कथाम् ॥ अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दति । उपायनञ्च गृह्णाति स्तोकमप्यादरात्तथा ॥ कथान्तरेषु स्मरति प्रहृष्टवदनस्तथा । इति रक्तस्य कर्त्तव्या सेवा रविकुलोद्वह ॥ आपत्सु न त्यजेत् पूर्ब्बं विरक्तमपि सेवितम् ॥ मित्रं न चापत्सु तथा च भृत्यं त्यजन्ति ये निर्गुणमप्रमेयम् । प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामामरवृन्दजुष्टम् ॥” इति मत्स्यपुराणे राजधर्म्मे अनुजीविवृत्तिनाम २१६ अध्यायः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राजानुजीविन्/ राजा m. the dependent of a king , a king's servant MatsyaP.
