सामग्री पर जाएँ

राजान्नम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

राजान्नम्, क्ली, (राजयोग्यमन्नम् । अन्नानां राजा इति वा ।) अन्ध्रदेशोद्भवशालिविशेषः । तत्प- र्य्यायः । नृपान्नम् २ राजार्हम् ३ दीर्घशूककम् ४ धान्यश्रेष्ठम् ५ राजधान्यम् ६ राजेष्टम् ७ दीर्घकूरकम् ८ । अस्य गुणाः । त्रिदोषघ्नत्वम् । सुस्निग्धत्वम् । मधुरत्वम् । लघुत्वम् । दीपन- त्वम् । बलकारित्वम् । पथ्यत्वम् । कान्तिवीर्य्य- वृद्धिदत्वञ्च । इति राजनिर्घण्टः ॥ (राज्ञः अन्नम् ।) राजस्वामिकभक्तम् । तद्भोजननिषेध- प्रायश्चित्ते राजशब्दे द्रष्टव्ये ॥ (राजान्न- भक्षणेन हि तेजोहानिर्भवति । यथा, मनुः । ४ । २१८ । “राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मबर्च्चसम् । आयुः सुवर्णकारान्नं यशश्चर्म्मावकर्त्तिनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=राजान्नम्&oldid=161427" इत्यस्माद् प्रतिप्राप्तम्