राजाम्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राजाम्रः, पुं, (आम्राणां राजा श्रेष्ठत्वात् । राजदन्तादित्वात् परनिपातः ।) आम्रविशेषः । तत्पर्य्यायः । राजफलः २ स्मराम्रः ३ कोकि- लोत्सवः ४ मधुरः ५ कोकिलानन्दः ६ कामेष्टः ७ नृपवल्लभः ८ । अस्य फलगुणाः । कोमलत्वम् । कट्वम्लत्वम् । पित्तदाहदत्वञ्च ॥ सुपक्वस्य तस्य गुणाः । स्वादुत्वम् । मधुरत्वम् । पुष्टिवीर्य्य- बलप्रदत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “राजाम्रष्टङ्क आम्रातः कामाह्वो राजपुत्त्रकः । राजाम्रं तुवरं स्वादु विषदं शीतलं गुरु । ग्राहि रूक्षं विबन्धाध्मवातकृत् कफपित्तनुत् ॥” इति भावप्रकाशः ॥
