सामग्री पर जाएँ

राजावर्त्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

राजावर्त्तः, पुं, (राजानं आवर्त्तयति आनन्द- यतीति । आ + वृत् + णिच् + अण् । यद्बा, राजः शोभमान आवर्त्तो यत्र ।) उपरत्नभेदः । रेउटी इति हिन्दी भाषा । तत्पर्य्यायः । नृपा- वर्त्तः २ राजात्यावर्त्तकः ३ आवर्त्तमणिः ४ आवर्त्तः ५ । अस्य गुणाः । मृदुत्वम् । स्निग्ध- त्वम् । शिशिरत्वम् । पित्तनाशनत्वम् । भूषणे प्रयोजितश्चेत् नृणां बहुभाग्यकरत्वञ्च । इति राजनिर्घण्टः ॥ विराटदेशजहीरकः । तत्- पर्य्यायः । विराटजः २ राजपट्टः ३ । इति हेमचन्द्रः । ४ । १३२ ॥ (यथा, कथासरित्- सागरे । ७३ । ३३९ । “राजावर्त्तोपलश्यामतले सद्वासवेश्मनि ॥” तथास्य गुणाः । “राजावर्त्तः कटुस्तिक्तः शिशिरः पित्तनाशनः । राजावर्त्तः प्रमेहघ्नः छर्द्दिहिक्कानिवारणः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=राजावर्त्तः&oldid=161442" इत्यस्माद् प्रतिप्राप्तम्