सामग्री पर जाएँ

राज्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

राज्यम्, क्ली, (राज्ञो भावः कर्म्म वा । राजन् + “पत्यन्तपुरोहितादिभ्यो यक् ।” ५ । १ । १२८ । इयि यक् ।) राज्ञ इदम् । तत्पर्य्यायः । नीवृत् २ मण्डलम् ३ जनपदः ४ देशः ५ प्रदेशः ६ विषयः ७ राष्ट्रम् ८ उपवर्त्तनम् ९ । इति शब्दरत्नावली ॥ अमरमते नीवृज्जनपदौ अङ्गवङ्गकलिङ्गपञ्चालमगधकोशलादौ मण्डल- त्वेन ख्याते ग्रामसमूहे । देशविषयोपवर्त्तनानि च जनपदे जनपदसमुदाये । जनपदैकदेशे सजल- निर्जलस्थानमात्रे च । उपाधिभेदेन देशादित्रिकं भिन्नार्थम् । सामान्येन प्रयोगदर्शनात् । नीवृदा- दयः पञ्चैवैकार्थाः । इत्यपरे । एतच्चायुक्तम् । इति भरतः ॥ * ॥ तस्य लक्षणं अङ्गानि च यथा, -- “परस्यैवोपकारीदं सप्ताङ्गं राज्यमुच्यते ॥ अमात्रराष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः । एताः प्रकृतयस्तद्वद्विजिगीषोरुदाहृताः ॥ एताः पञ्च तथा मित्रं सप्तमं पृथिवीपतिः । सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥ पौरश्रेणी तदङ्गञ्च ब्रुवते शब्दवेदिनः ॥ स्वाम्यमात्यः सुहृत् कोषो राष्ट्रं दुर्गं बलं तथा । पौरश्रेणी च राज्याङ्गं प्रकृतिश्च भवेत् द्धयम् ॥” इति शब्दरत्नावली ॥ अपि च । “लक्षाधिपत्यं राज्यं स्यात् साम्राज्यं दशलक्षके । शतलक्षे महेशानि महासाभ्राज्यमुच्यते ॥” इति वरदातन्त्रम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

राज्यम् [rājyam], [राज्ञो भावः कर्म वा, राजन्-यत् नलोपः]

Royalty, sovereignty; royal authority; राज्येन किं तद् विपरीतवृत्तेः R. 2.53;4.1.

A kingdom, country, an empire; R. 1.58.

Rule, reign, government, administration of a kingdom. -Comp. -अङ्गम् a constituent member of the state, a requisite of regal administration; (these are usually said to be seven: स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च Ak.).

a stronghold.

an army.

अधिकारः authority over a kingdom.

a right to sovereignty.-अधिदेवता the tutelary deity of a kingdom. -अप- हरणम् usurpation. -अभिषेकः inauguration or coronation of a king. -आश्रममुनिः a pious king, the sage living in the hermitage in the form of the kingdom; पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः R.1.58. -उपकरणम् (pl.) the paraphernalia of government. -करः the tribute paid by a tributary prince. -कर्तृ m.

an administrator or officer of government.

a king. -खण्डम् a country. -च्युत a. deposed or dethroned. -तन्त्रम् the science of government, system of administration, the government or administration of a kingdom; Mu.1. -द्रव्यम् a requisite of sovereignty.-धुरा, -भारः the yoke or burden of government, the responsibility or administration of government. -परि- क्रिया administration. -भाज् a king. -भङ्गः subversion of sovereignty. -भोगः the possession of sovereignty.-भ्रंशः deposition from kingdom, loss of sovereignty.-लक्ष्मीः, -श्रीः the glory of sovereignty. -लोभः greed of dominion, desire of territorial aggrandizement.-विभूतिः power of royalty. -व्यवहारः administration, government business. -सुखम् the sweets of royalty.-स्थितिः government.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a kingdom; if a king has no legitimate suc- cessor, it changes hands; ruled by ministry in the king's absence; is concerned with two main things (बाह्य) or foreign affairs and (abhyantara) or home policy; फलकम्:F1: Br. III. ५०. २९-51; वा. ८८. ९४; ११२. १४. ४६.फलकम्:/F of पृथु, described. फलकम्:F2: M. 1. ११; १०. १०-35.फलकम्:/F [page३-070+ २८]

"https://sa.wiktionary.org/w/index.php?title=राज्यम्&oldid=436161" इत्यस्माद् प्रतिप्राप्तम्