सामग्री पर जाएँ

रात्रिवासः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रात्रिवासः, [स्] क्ली, (रात्रेर्वासो वस्त्रमिव ।) अन्धकारः । इति शब्दमाला ॥ रात्रौ शयन- कालीनपरिधेयवस्त्रम् । यथा । ब्राह्म्ये मुहूर्त्ते उत्थाय मुक्तस्वापः रात्रिवासस्त्यक्त्वा शिरसि सहस्रदलकमलावस्थितं श्वेतवर्णं द्विभुजं वरा- भयकरं श्वेतमाल्यानुलेपनं स्वप्रकाशरूपं स्ववामस्थितरक्तशक्त्या सुप्रकाशरूपया सहितं गुरुं विभाव्य मानसोपचारैराराध्य नम- स्कुर्य्यात् । इति तन्त्रसारः ॥ अपि च । “शयनञ्चान्धकारे च रात्रिवासो दिने तथा । स्नानाम्बरं कुवेशञ्च वर्ज्जयेत् शुष्कभोजनम् ॥” इति लक्ष्मीचरित्रम् ॥

"https://sa.wiktionary.org/w/index.php?title=रात्रिवासः&oldid=161504" इत्यस्माद् प्रतिप्राप्तम्