रामकरी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रामकरी, स्त्री, रामकली रागिणी । इति हला- युधः ॥ (क्वचित् रामकिरीत्यपि पाठः । यथा, सङ्गीतदर्पणे रागाध्याये । अथ रामकिरी । “षड्जग्रहांशकन्यासा पूर्णा रामकिरी मता । मूर्च्छना प्रथमा ज्ञेया करुणे सा प्रयुज्यते ॥ रिधत्यक्ताथवा प्रोक्ता कैश्चित् पञ्चमवर्जिता । त्रिविधा सा समुद्दिष्टा सम्पूर्णा षाडवौडवा ॥” अस्या ध्यानम् । “हेमप्रमा भासुरभूषणा च नीलं निचोलं वपुषा वहन्ती । कान्ते समीपे कमनीयकण्ठा मानोन्नता रामकिरी मतेयम् ॥” उदाहरणम् । स रि ग म प घ नि स । सम्पूर्णा ॥ अथवा स ग म प नि स । औडवा ॥ अथवा स रि ग म ध नि स । साडवा ॥ इति रामकिरी ॥) अस्य अन्यत् विवरणं रागशब्दे द्रष्टव्यम् ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रामकरी¦ f. (-री) One of the Ra4gi4nis, or female personifications of the musical modes. E. राम delighting, करी who makes; also रामकली |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रामकरी/ राम--करी f. (in music) N. of a रागिणीW. (prob. w.r. for -किरीSee. )