रामायण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामायणम्, क्ली, (रामस्य चरितान्वितं अयनं शास्त्रम् ।) रामेण रावणवधकाव्यम् । इति त्रिकाण्डशेषः ॥ तच्च शतकोटिसंख्यकम् । यथा । स्कान्दे पातालखण्डे अयोध्यामाहात्म्ये तत्रत्य- तीर्थाश्रमवर्णनप्रस्तावे । “शापोक्त्या हृदि सन्तप्तं प्राचेतसमकल्मषम् । प्रोवाच वचनं ब्रह्मा तत्रागत्य सुसत्कृतः ॥ न निषादः स वै रामो मृगयाञ्चर्त्तुमागतः । तस्य संवर्णनेनैव सुश्लोक्यस्त्वं भविष्यसि ॥ इत्युक्त्वा तं जगामाशु ब्रह्मलोकं सनातनः । ततः संवर्णयामास राघवं ग्रन्थकोटिभिः ॥” कोटिभिः शतकोटिभिः । चरितं रघुनाथस्य शतकोटिप्रविस्तरमित्यन्यत्रोक्तेः । तच्च संपूर्णं ब्रह्मलोके इत्यैतिह्यम् ॥ इह तु कुशलवोपदिष्टा चतुर्विंशतिसाहस्रीत्यलम् । इति रामायण- टीकायां नागोजीभट्टः ॥ * ॥ तथा हि । “प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवान् ऋषिः । चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥ चतुर्विंशत्सहस्राणि श्लोकानामुक्तवान् ऋषिः । तथा सर्गशतान् पञ्च षट् काण्डानि तथोत्तरम् ॥ इति रामायणे वाल्मीकीये बालकाण्डे ३ सर्गः ॥ संक्षिप्तरामचरित्रं यथा, -- “रामायणमथो वक्ष्ये श्रुतं पापविनाशनम् । विष्णुनाभ्यब्जजो ब्रह्मा मरीचिस्तत्सुतः स्मृतः ॥ मरीचेः कश्यपस्तस्मात् परस्तस्मात् मनुः सुतः । मनोरिक्षाकुवंश्योऽभूद्वंशे राजा रघुः स्मृतः ॥ रघोरजस्ततो जातो राजा दशरथो बली । तस्य पुत्त्रास्तु चत्वारो महाबलपराक्रमाः ॥ कौशल्यायामभूद्रामो भरतः केकयीसुतः । सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायां बभूवतुः ॥ श्रीवाल्मीकिरुवाच । “उपशमप्रकरणादनन्तरमिदं शृणु । तन्निर्व्वाणप्रकरणं ज्ञातं निर्व्वाणदायि यत् ॥ १ ॥ य इमं शृणुयान्नित्यं विधिं रामवशिष्ठयोः । सर्व्वावस्थोऽपि श्रवणान्मुच्यते ब्रह्म ऋच्छति ॥ २ ॥ उत्तरार्द्धे षोडशोत्तरद्बिशतसर्गाः । तस्या- द्यन्तश्लोकौ यथा, -- श्रीराम उवाच । “नैष्कर्म्म्यात् कल्पनात्यागात् तनुः पतति रोहितः । कथमेतदता ब्रह्मन् सम्भवत्याशु जीवतः ॥ १ ॥ यत् तर्व्वं खल्विदं ब्रह्म तज्जलानिति च स्फुटम् । श्रुत्या ह्युदीर्य्यते साम्नि तस्मै ब्रह्मात्मने नमः ॥” २ ॥ अत्रादौ वैराग्यप्रकरणग्रन्थः । द्वितीयो मुमुक्षु- ग्रन्थः । तृतीय उत्पत्तिग्रन्थः । चतुर्थः स्थिति- ग्रन्थः । पञ्चमः सकलोपशमग्रन्थः । षष्ठप्रक- रणे निर्व्वाणग्रन्थः । पूर्ब्बार्द्धे सटीकग्रन्थ- संख्या १३६०० । उत्तरार्द्धे सटीकग्रन्थसंख्या २३९०० । इति श्रीमहारामायणे निर्व्वाणप्रक- रणे बालकाण्डे मोक्षोपाये देवहूतोक्ते द्बात्रिं- शत्साहस्र्यां संहितायां वाशिष्ठे ब्रह्मदर्शने उत्तरार्द्धे षोडशोत्तरद्विशततमः सर्गः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामायण¦ न॰। राभस्यायनं चरितमधिकृत्य कृतो ग्रन्थोऽण्। रामचरितप्रतिपादके वाल्मीकिकृते महाकाव्यभेदे तच्चसप्तकाण्डात्मकम् ब्रह्मलोके कोटिश्लोकात्मकं मनुष लोकेच चतुर्विंशतिसाहस्रं पञ्चशतसर्गयुतम्। तत्प्रतिपाद्यविप{??}ञ्च गह॰ पु॰

१४

८ अ॰{??}क्त यथा(
“{??}रघो रजरततो जातो राजा दशरपो{??}। तस्यपुत्रास्तु चत्वारो{??}। कोशल्याया-मभूद्रामा भरतः केकयी{??} सुतौ लक्ष्मणशत्रुघ्नौसुमित्रायां बभूवतुः। रामो क्तः पितुर्मातुर्विश्वामित्रा-दवाप्तवान्। अस्त्रग्रामं यतो यक्षीं ताडकां प्रजथानह। विश्वामित्रस्य यज्ञे तु सुबाहुं न्यबधीद्बली। जनं-कस्य क्रतुं गत्वा उपयेमेऽथ जानकीम्। उर्म्मिलांलक्ष्मणो वीरो भरतो माण्डवीं सुताम्। शत्रुघ्नो वैकीर्त्तिमतीं कुशध्वजसुते च ते। पित्रादिभिरयोध्यायांगत्वा रामादयः स्थिताः। थुधाजितं मातुलञ्च शत्रुघ्न-भरतौ गतौ। गतयोर्नृपवर्य्येण राज्यं दातुं समुद्य-तम्। रामाय ज्येष्ठपुत्राय कैकेय्या प्रार्थितं तदा। चतुर्दश समावासो वने रामस्य वाञ्छितः। रामः पितृ-हितार्थन्तु लक्ष्मणेन च सीतया। राज्यं च तृणवत्त्यक्त्वा शृङ्गवेरपर गतः। रथं त्यक्त्वा प्रयागञ्च चित्र-कूटं गिरिं{??}। रामस्य तु वियोगेन राजा स्वर्गं स-माश्रितः। संस्कृत्य भरतश्चागा{??} मागृगणान्वितः। अयोध्यान्तु समागत्य राज्यं कुरु महामते!। स नैच्छत्पादुके दत्त्वा राज्याय मरताय तु। विसर्ज्जितोऽथभरतो रामराज्यमपालयत्। नन्दिग्रामे स्थितो भक्तोह्ययोध्यां नाविशद् व्रती। रामोऽपि चित्रकूटाच्च अत्रे-राश्रममाययौ। नत्वा सुतीक्ष्णं चागस्त्यं दण्डकारण्य-मागतः। तत्र सुर्पनखा नाम राक्षसी सहसागता। निकृत्य कर्णौ नासे च रामेणाथ पराहिता। तत्प्रेरितःखरश्चागा{??}षणस्त्रिशिरास्तथा। चतुर्द्दशसहस्रेण रक्ष-सान्तुःबलेम च। रामोऽपि प्रेषयामास बाणैर्यमपुरञ्चतान्। राक्षस्या प्रेरितोऽ{??}गात् रावणो{??}हि। मृगरूपं स मारीचं लत्वाग्रेऽथ त्रिदण्डधृक्। सीतया प्रेरितो रामो मा{??} प्रजथान ह।{??}य-माणः स च प्राह हा सीते! लक्ष्मणेतिं च। सीतोक्तोसक्ष्मणोऽथागाद्रामश्चाशु ददर्श तम्। उवा च राक्षसी[Page4806-b+ 38] माया नूनं सीता हृतेति सा। रावणोऽन्तरमासाद्य अङ्केनादाय जानकीम्। जटायुषं विनिर्जित्य ययौ लङ्कांततो बली। अशोकवृक्षच्छायायां रक्षितां तामधारयत्। आगत्य रामः शून्याञ्च पर्णशालां ददर्श ह। शोकंकृत्वाथ जानक्या मार्गणं कृतवान् प्रमुः। जटायुषञ्चसंस्कृत्य तदुक्तो दक्षिणां दिशम्। गत्वा सख्यं ततश्चक्रेसुग्रीपेण च राचवः। सप्ततालान् विनिर्मिद्य किष्कि-न्ध्याया हरीश्वरा। सुग्रीवं कृतवान राम ऋष्यमूकेस्वयं{??} स वानरान् पर्वतोप-मान्। सीता{??} वर्त्तं पूर्वादौ सुमहाबलान्। प्रतीचीमुतरां{??} गत्वा समागताः। दक्षिणान्तुदिशं ये च मार्गयन्तोऽथ जानकीम्। वनानि पर्वतान्द्वीपान् नदीनां पुलिनानि च। जानकीं ते ह्यपश्यन्तोमरणे कृतनिश्चयाः। सम्पातिवचनात् ज्ञात्वा हनूमान्कपिकुञ्जरः। शतयोजनविस्तीर्ण पुप्लुवे मकरालयम्अपश्यज्जानकीं तत्र अशोकवनिकास्थिताम्। भर्त्सितांराक्षसीभिश्च रावणेन च रक्षसा। भव भार्य्येति वदताचिन्तयन्तीञ्च राघवम्। अङ्गुलीयं कपिर्दत्त्वा सीतांकौशल्यमब्रवीत्। रामस्य तस्य दूतोऽहं शोकं मा कुरुमैथिलि!। अभिज्ञानञ्च मे देहि येन रासः स्मरिष्यति। तत् श्रुत्वा प्रददौ सीता वेणीरत्नं हनूमते। यथा रामोनयेत् शीघ्रं तथा वाच्यं त्वया गते। तथेत्युक्त्वा तुहनुमान् वनं दिव्यं बभञ्ज तत्। हत्वाक्षं राक्षसांञ्चान्यान् वन्धनं{??} णैदृष्ट्वारावणमव्रीत्। रामदूतोऽस्मि हनुमान् देहि रामायमैथिलीम्। एतत् श्रुत्वा प्रकुपितो दीपयामास पुच्छकम्। कपिर्ज्वलितलाङ्गूलो लङ्कां देहे महाबलः। दग्ध्वालङ्कां समायात रामपार्श्वं स वानरः। जाब्वा फलंमधुवने दृष्टा सीतेत्यवेदयत्। मणिरत्नञ्च रामाय रामोलङ्कां ययौ पुरीम्। ससुग्रीवः सहनुमानङ्गदाद्यैःसलक्ष्मणः। विभीषणोऽपि संप्राप्तः शरणं राघवं प्रति। लङ्कैश्वर्य्येष्वभ्यषिञ्चद्रामस्तं रावणानुजम्। रामो नलेनसेतुञ्च कृत्वाब्धौ चोच्छ्रितायतम्। सुवेलावस्थितश्चैव पुरींलङ्कां ददर्श ह। अथ ते वानरा वीरा नीलाङ्गदनलादयः। धूम्रधूम्राक्षधूम्रेन्द्राजाम्बवत्प्रमुखास्तदा। मैन्द-द्विविदमुख्यास्ते पुरीं लङ्कां बभञ्जिरे। राक्षसांश्च महा-कायान् कालाञ्जनचयोपमान्। रामः सलक्ष्मणो हत्वासकपिः सर्वराक्षसान्। विद्युज्जिह्वञ्च धम्राक्षं देवा-[Page4807-a+ 38] न्त{??}नरान्तकौ। महोदरमहापार्श्वावतिकायं महाबलम्। कुम्भं निकुम्भं मत्तञ्च मकराक्षं ह्यकम्पनम्। प्रहस्तंवीरमुन्मत्तं कुम्भकर्णं महाबलम्। रावणं ब्रह्मणश्छित्त्वाह्यस्त्राद्यै राघवो वली। निकृत्य बाहुपक्त्राणि रावणन्तुव्यपातयत्। सीतां शुद्धां गृहीत्वाथ विमाने पुष्पकेस्थितः। सवानरः समायातो ह्ययोध्यां प्रवरां पुरीम्। तत्र राज्यं चकाराथ पुत्रवत् पालयन् प्रजाः। दशा-श्वमेधानाहृत्य गयाशिरसि पातनम्। पिण्डानां विधि-वत् कृत्वा दत्त्वा दानानि राघवः। पुत्रौ कुशलवौ सृष्ट्वातौ च राज्येऽभ्यषेचयत्। एकादशसहस्राणि रामोराज्यमकारयत्। शत्रुघ्नो लवणं हत्वा शैलूषं भरतःस्थितः। अगस्त्यादिमुनीनाञ्च समुत्पत्तिञ्च रक्षसाम्। स्वर्गं गतो जनैः सार्द्धमयोध्यस्थैः कृतान्तकः”। अन्य-दपि व्यासप्रणीते पद्मपु॰ अध्यात्मरामायणं वाल्मीकि-कृतमद्भुतरामायणं चास्ति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामायण¦ n. (-णं)
1. The first epic poem of the Hindus, written by the poet VA4LMIKI, recording the adventures of RA4MA, the son of DAS4A RATHA, sovereign of Oudh.
2. A name of several poems on the life and adventures of RA4MA. E. राम the prince, and अयन abode.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामायण/ रामा See. रामायण, col. 3.

रामायण mf( ई)n. relating to राम( दाशरथि) S3a1rn3gP.

रामायण n. ( रमा-यण)N. of वाल्मीकि's celebrated poem , describing the " goings "([ अयन])of रामand सिता(it contains about 24000 verses in 7 books called काण्डs , viz. 1. बाल-काण्डor आदि-काण्ड; 2. अयोध्या-काण्ड; 3. अरण्य-काण्ड; 4. किष्-किन्ध्या-काण्ड; 5. -k सुन्दर-काण्ड; 6. युद्ध-काण्ड; 7. -k उत्तर-काण्ड; part of the 1st book and the 7th are thought to be comparatively modern additions ; the latter gives the history of रामand सीताafter their re-union and installation as king and queen of अयोध्या, afterwards dramatized by भव-भूतिin the उत्तर-राम-चरित्र; राम's character , as described in the रामायण, is that of a perfect man , who bears suffering and self-denial with superhuman patience ; the author , वाल्मीकि, was probably a Brahman connected with the royal family of अयोध्या; and although there are three recensions of the poem , all of them go back to a lost original recension , the ground work of which , contained in books 2-6 , in spite of many amplifications and interpolations , may be traced back to one man , and does not like the महाभारत, represent the production of different epochs and minds) MBh. Hariv. etc. (See. IW. 335 ).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rāmāyaṇa^1 : nt.: Name of an upākhyāna.

It is narrated in great details (bāhuvistaram); listed in the contents of the Āraṇyakaparvan 1. 2. 126; related to the adhyāyas 3. 258-276.


_______________________________
*3rd word in left half of page p208_mci (+offset) in original book.

Rāmāyaṇa^2 : nt.: Name of the epic.

Referred to by Bhīma in his conversation with Hanūmān 3. 147. 11.


_______________________________
*1st word in right half of page p208_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rāmāyaṇa^1 : nt.: Name of an upākhyāna.

It is narrated in great details (bāhuvistaram); listed in the contents of the Āraṇyakaparvan 1. 2. 126; related to the adhyāyas 3. 258-276.


_______________________________
*3rd word in left half of page p208_mci (+offset) in original book.

Rāmāyaṇa^2 : nt.: Name of the epic.

Referred to by Bhīma in his conversation with Hanūmān 3. 147. 11.


_______________________________
*1st word in right half of page p208_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रामायण&oldid=503843" इत्यस्माद् प्रतिप्राप्तम्