सामग्री पर जाएँ

रावणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रावणः, पुं, (रवणस्यापत्यमिति । रवण + “शिवादिभ्योऽण् ।” ४ । १ । ११२ । इति अण् । यद्वा, रावयति भीषयति सर्व्वानिति । रु + णिच् + ल्युः ।) लङ्काधिपतिः । तत्पर्य्यायः । पौलस्त्यः २ रक्षः ३ लङ्केशः ४ दशकन्धरः ५ । इति हेमचन्द्रः ॥ दशकण्ठः ६ निकषात्मजः ७ राक्षसेन्द्रः ८ लङ्केशः ९ पङ्क्तिग्रीवः १० दशा- ननः ११ । इति शब्दरत्नावली ॥ लङ्कापतिः १२ दशास्यः १३ । इति जटाधरः ॥ (अस्य निरुक्तिर्यथा, रामायणे । “यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना वीरो भवि- ष्यसि ॥”) तस्योत्पत्तिनाशौ यथा, -- सूत उवाच । “मानवस्य नरैष्यन्त आसीत् पुत्त्रो दमः किल । नवमस्तस्य दायादस्तृणबिन्दुरिति स्मृतः ॥ तस्य कन्या इडविडा रूपेणाप्रतिमा भुवि । पुलस्त्याय स राजर्षिस्तां कन्यां प्रव्यपादयत् ॥ ऋषिरैडविडो यस्यां विश्रवाः समपद्यत । तस्य पत्न्यश्चतस्रश्च पूर्ब्बा वै देववर्णिनी ॥ ज्येष्ठं वैश्रवणं यज्ञे कुरूपं देववर्णिनी । त्रिपादं सुमहाकायं स्थूलशीर्षं महाहनुम् ॥ अष्टदंष्ट्रं हरिश्मश्रुं शङ्कुकर्णविलोहितम् । पिङ्गलं नाम संदृश्य पिता तस्याब्रवीत्ततः ॥ कुत्सायान्तु कुशब्दोऽयं शरीरञ्चेदमुच्यते । कुशरीरत्वाच्च नाम्ना तेन वै स कुवेरकः ॥ ऋध्यां कुवेरो जनयद्विश्रुतं नलकूरम् ॥ रावणं कुम्भकर्णञ्च कन्यां सूर्पणखां तथा । विभीषणं चतुर्थन्तु नैकष्यजनयत् सुतम् ॥ शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूद्धजः । चतुष्पाद्विं शतिभुजो महाकायो महाबलः ॥ जात्यञ्जननिभो मर्द्दलोहितग्रीव एव च । निसर्गाद्दारुणः क्रूरः स रावण इति स्मृतः ॥ हिरण्यकशिपुस्त्वासीत् स राजा पूर्ब्बजन्मनि ॥ चतुर्युगानां राजा तु त्रयोदश स राक्षसः ॥ ताः पञ्चकोट्यो वर्षाणां संख्याताः संख्यया द्बिजैः । नियुतानामेकषष्टिः संख्याविद्भिरुदाहृताः ॥ षष्टिश्चैव सहस्राणि वर्षाणां हि स रावणः । देवतानां पितॄणाञ्च घोरं कृत्वा प्रजागरम् ॥ त्रेतायुगे चतुर्थांशे रावणस्तपसः क्षयात् । रामं दाशरथं प्राप्य सगणः क्षयमीयिवान् ॥” इति वह्निपुराणे वाराहप्रादुर्भावनामाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=रावणः&oldid=161612" इत्यस्माद् प्रतिप्राप्तम्