सामग्री पर जाएँ

रावणगङ्गा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रावणगङ्गा, स्त्री, (रावणेन कृता गङ्गा ।) सिंहल- देशस्थनदीविशेषः । यथा, -- सूत उवाच । “दिवाकरस्तस्य महामहिम्नो महासुरस्योत्तमरत्नबीजम् । असृग्गृहीत्वा चरितं प्रतस्थे निस्त्रिंशनीलेन नभस्तलेन ॥ जेत्रा सुराणां समरेष्वजस्रं वीर्य्यावलेपोद्धतमानसेन । लङ्काधिपेनार्द्धपथं समेत्य स्वर्भानुनेव प्रसभं निरुद्धम् ॥ तत् सिंहलीचारुनितम्बविम्ब- विक्षोभितागाधमहाह्नदायाम् । पूगद्रुमाबद्धतटद्वयायां मुमोच सूर्य्यः सरिदुत्तमायाम् ॥ ततः प्रभृति सा गङ्गा तुल्यपुण्यफलोदया । नाम्ना रावणगङ्गेति प्रथिमानगुपागता ॥ ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः । पद्मरागा घनं रागं विभ्राणाः स्वस्फटार्च्चिषः ॥” इति गारुडे ७० अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रावणगङ्गा¦ स्त्री रावणनिर्म्मिता गङ्गा नदी। सिंहल-देशस्थे नदीभेदे गरुडपु॰

७ अ॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रावणगङ्गा/ रावण--गङ्गा f. " -R रावण's Ganges " , N. of a river in लङ्कGa1rud2aP.

"https://sa.wiktionary.org/w/index.php?title=रावणगङ्गा&oldid=218191" इत्यस्माद् प्रतिप्राप्तम्