राष्ट्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राष्ट्रम्, पुं, क्ली, (राजते इति । राज् + “सर्व्व- धातुभ्यः ष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् । व्रश्चेति षः ।) विषयः । (यथा, मनुः । ९ । २५४ । “अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः । तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥”) उपद्रवः । इत्यमरः । ३ । ३ । १८३ ॥ विषयो जनपदः । उपद्रवो मरकादिः । इति भरतः ॥ (राष्ट्रपालननियमादिकं महाभारते १२ । ८७ अध्याये द्रष्टव्यम् ॥ * ॥ पुं, पुरूरवोवंश- जातस्य काशेः पुत्त्रः । यथा, भागवते । ९ । १७ । ४ । “काश्यस्य काशिस्तत्पुत्त्रो राष्ट्रो दीर्घतमः पिता ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राष्ट्रम् [rāṣṭram], [राज्-ष्ट्रन् Uṇ.4.167]
A kingdom, realm, empire; राष्ट्रदुर्गबलानि च Ak; सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभि- वृद्धये Ms.7.19;1.61.
A district, territory, country, region; as in महाराष्ट्र; नगराणि च राष्ट्राणि धनधान्य- युतानि च Rām.1.1.93; स्वराष्ट्रे न्यायवृत्तः स्यात् Ms.7.32.
The people, nation, subjects; तस्य प्रक्षुभ्यते राष्ट्रम् Ms. 9.254. -ष्ट्रः, -ष्ट्रम् Any national or public calamity.-Comp. -अभिवृद्धिः increase of a kingdom. -कर्षणम् distressing a kingdom; तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् Ms.7.112. -तन्त्रम् administration. -पतिः, -पालः a sovereign. -भेदः division of a kingdom.
