रासमण्डल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रासमण्डलम्, क्ली, (रासस्य मण्डलम् ।) श्रीकृष्णस्य रासक्रीडास्थलम् । तद्विवरणम् । यथा, -- “तस्मादुपरि गोलोकः पञ्चाशत्कोटियोजने । वायुना धार्य्यमाणश्च विचित्रपरमाश्रयः ॥ अतीवरम्यनिर्म्माणो नित्यरूपो मदीच्छया । शतशृङ्गेण शैलेन पुण्यवृन्दावनेन च ॥ सुरासमण्डलेनापि नद्या विरजयावृतः । कोटियोजनविस्तीर्णा प्रस्थेन विरजा व्रज ॥ दैर्घ्ये तस्य शतगुणा परितः परमा शुभा । अमूल्यरत्ननिकरा हीरामाणिक्ययोस्तथा ॥ मणीनां कौस्तुभादीनामसंख्यानां मनोहरा । अमूल्यरत्ननिर्म्माणं तत्रापि प्रतिमन्दिरम् ॥ मनोहरञ्च प्राकारमदृष्टं विश्वकर्म्मणा । गोपीभिर्गोपनिकरैर्वेष्टितं कामधेनुभिः ॥ कल्पवृक्षैः पारिजातैरसंख्यैश्च सरोवरैः । पुष्पोद्यानैः सुकोटिभिः संवृतं रासमण्डलम् ॥ वेष्टितं चेष्टितैर्गोपैर्मन्दिरैः शतकोटिभिः । रत्नप्रदीपयुक्तैश्च पुष्पतल्पसमन्वितैः ॥ सुगन्धिचन्दनामोदैः कस्तूरीकुङ्कुमान्वितैः । क्रीडोपयुक्तैर्भोगैश्च ताम्बूलैर्वासितैर्जलैः ॥ धूपैः सुरभिरम्यैश्च माल्यैश्च रत्नदर्पणैः । रक्षकै रक्षितैः शश्वद्राधादासीत्रिकोटिभिः ॥ अमूल्यरत्नाभरणैर्व्वह्निशुद्धांशुकैरपि । लक्षमत्तगजेन्द्राणां वेष्टितैश्च बलैः क्रमात् ॥ नवयौवनसम्पन्नै रूपैर्निरुपमैरपि । रम्यञ्च वर्त्तुलाकारं चन्द्रविम्बं यथा व्रज ॥ अमूल्यरत्नरचितं दशयोजनविस्तृतम् । कस्तूरीकुङ्कुमै रम्यैः सुगन्धिचन्दनार्च्चितैः ॥ आवृतं मङ्गलघटैः फलपल्लवसंयुतैः । दधिलाजैश्च पर्णैश्च स्निग्धदूर्व्वाङ्कुरैः फलैः ॥ श्रीरामकदलीस्तम्भैरसंख्यैश्च मनोहरैः । पट्टसूत्रनिबद्धैश्च स्निग्धैश्चन्दनपल्लवैः ॥ चन्दनासक्तमाल्यैश्च भूषणैश्च विभूषितम् । अमूल्यरत्नरचितं शतशृङ्गं मनोहरम् ॥ कोटियोजनमूर्द्ध्वञ्च दैर्घ्यं दशगुणोत्तरम् । शैलप्रस्थं परिमितं पञ्चाशत्कोटियोजनम् ॥ अतीवकमनीयञ्च वेदेऽनिर्व्वचनीयकम् । प्राकारमिव तस्यापि गोलोकस्य मनोहरम् ॥ परितो वेष्टितं रम्यं हीराहारसमन्वितम् । तत्र वृन्दावनं रम्यं युक्तं चन्दनपादपैः ॥ कल्पवृक्षैश्च रम्यैश्च मन्दारैः कामधेनुभिः । शोभितं शोभनाढ्यञ्च पुष्पोद्यानैर्मनोहरैः ॥ क्रीडासरोवरै रम्यैः सुरम्यै रतिमन्दिरैः । अतीवरम्यं रहसि रासयोग्यस्थलान्वितम् ॥ रक्षितं रक्षकै रम्यैरसंख्यैर्गोपिकागणैः । परितो वर्त्तुलाकारं त्रिलक्षयोजनं वनम् ॥ षट्पदध्वनिसंयुक्तं पुंस्कोकिलरुतान्वितम् । तत्राक्षयवटो रम्यो रहस्येव हि विस्तृतः ॥ सहस्रयोजनोर्ड्घश्च परितश्च चतुर्गुणः । गोपीनां कल्पवृक्षैश्च सर्व्ववाञ्छाफलप्रदः ॥ क्रीडान्वितैरावृतश्च राधादासीत्रिलक्षकैः । विरजातीरनारीणां यमुनाशीतलेन च ॥ पुष्पान्वितेन मान्द्येन पवित्रश्च सुगन्धिना । दासीगणैरसंख्यैश्च वृन्दावनविनोदिनी ॥ तत्र क्रीडति सा राधा मम प्राणाधिदेवता ॥ सेयं श्रीदामशापेन वृषभानुसुताधुना । ब्रह्मादिदेवैः सिद्धेन्द्रैर्मुनीन्द्रैः पूजिता व्रज ॥” इति ब्रह्मवैवर्त्ते भगवन्नन्दसंवादे श्रीकृष्णजन्म- खण्डे ८४ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रासमण्डल¦ न॰ रासार्थं शृङ्खलावन्धवत् द्वयोर्द्वयोमध्य-स्थित्या क्रीडाभेदार्थं मण्डलं मण्डलाकारेण भ्रमणंयत्र।
१ गोलोकस्थे रासक्रीडाधारस्थाने। तत्रत्य म-ण्डलप्रमाणञ्च ब्रह्मवै॰ जन्मख॰
८४ अ॰। श्रीकृष्णस्यतदुत्सवाङ्गे
२ मण्डपभेदे च।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रासमण्डल/ रास--मण्डल n. कृष्ण's circular dancing ground BhP. Pan5car.
