रास्ना
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रास्ना, स्त्री, (रस्यते इति । रस आस्वादने + “रास्नासास्नास्थूणावीणाः ।” उणा० ३ । १५ । इति नप्रत्ययेन साधुः ।) स्वनामख्यातलता- विशेषः । रासन इति हिन्दी भाषा । तत्- पर्य्यायः । नाकुली २ सुरसा ३ सुगन्धा ४ गन्ध- नाकुली ५ नकुलेष्टा ६ भुजङ्गाक्षी ७ छत्राकी ८ सुवहा ९ । इत्यमरः ॥ नाकुल्यादिपञ्चकं रास्नायाम् । नकुलेष्टादिचतुष्कं सर्पाक्ष्यामि- त्याहुः । इति तट्टीकायां भरतः ॥ रस्या १० श्रेयसी ११ रसना १२ रसा १३ सुगन्धिमूला १४ रसाढ्या १५ अतिरसा १६ द्रोणगन्धिका १७ सर्पगन्धा १८ पलङ्कषा १९ । इति जटाधरः ॥ अस्या गुणाः । गुरुत्वम् । तिक्तत्वम् । उष्ण- त्वम् । विषवातास्रकासशोफकम्पोदरश्लेष्मनाशि- त्वम् । पाचनत्वञ्च । “रास्ना तु त्रिविधा प्रोक्ता मूलं पत्रं तृण- न्तथा । ज्ञेयौ मूलदलौ श्लिष्टौ तृणा रास्ना तु मध्यमा ॥” इति राजनिर्घण्टः ॥ अपि च । “नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली । नकुलेष्टा भुजङ्गाक्षी सर्पाक्षी विषनाशिनी ॥ नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत् । भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान् ॥” इति भावप्रकाशः ॥ रास्ना शोथामवातघ्नी । इति राजवल्लभः ॥ औषधिविशेषः । का~टा आमरुली इति भाषा । तत्पर्य्यायः । एलापर्णी २ सुवहा ३ युक्त- रसा ४ । इत्यमरः ॥ अपि च । “रास्ना युक्तरसा रस्या सुवहा रसना रसा । एलापर्णी च सुरसा सुस्निग्धा श्रेयसी तथा ॥ रास्नामपाचनी तिक्ता गुरूष्णा कफवातजित् । शोथश्वाससमीरास्रवातशूलोदरापहा । काशज्वरविषाशीतिवातिकामयहिध्महृत् ॥” इति भावप्रकाशः ॥ (रशना । यथा, वाजसनेयसंहितायाम् । १ । ३० । “आदित्यै रास्नासि ।” “हे योक्त्र आदित्यै अदित्या भूम्यास्त्वं रास्रासि रशना असि ॥” इति तद्भाष्ये महीधरः ॥ रुद्रपत्नीनामन्यतमा । यथा, ब्रह्मवैवर्त्ते । १ । ९ । १३ -- १४ । “नामानि रुद्रपत्नीनां सावधानं निबोध मे । कला कलावती काष्ठा कालिका कलहप्रिया ॥ कन्दली भीषणा रास्ना प्रम्लोचा भूषणा शुकी । एतासां बहवः पुत्त्रा बभूवुः शिवपार्षदाः ॥”)
अमरकोशः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रास्ना स्त्री।
रास्ना
समानार्थक:नाकुली,सुरसा,रास्ना,सुगन्धा,गन्धनाकुली,नकुलेष्टा,भुजङ्गाक्षी,छत्राकी,सुवहा
2।4।114।2।3
वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी। नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
रास्ना स्त्री।
एलापर्णी
समानार्थक:एलापर्णी,सुवहा,रास्ना,युक्तरसा
2।4।140।1।3
एलापर्णी तु सुवहा रास्ना युक्तरसा च सा। चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
वाचस्पत्यम्[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रास्ना¦ स्त्री रस--णन्।
१ स्वनामख्यातायां लतायाम् (कां टाआमरुल)। तत्पर्य्यायगुणा भावप्र॰ उक्ता यथा
“रास्नायुक्तरसा रस्या सुवहा रसना रसा। एलापर्णी च सु-रसा सुस्निग्धा श्रेयसी तथा। रास्नामपाचनी तिक्तागुरूष्णा कफवातजित्। शोथश्वाससमीरा{??}वातशूलोदरा-पहा। कासज्वरविषाशीतिबातिकामयसिध्महृत्” भावप्र॰।
३ नाकुल्यां भावप्र॰ तत्पर्य्यायगुणा उक्ता यथा
“नाकुलीसुरसा रास्ना सुगन्धा गन्धनाकुली। नकुलेष्टा भुज-ङ्गाक्षी सर्पाक्षी विषनाशिनी। नाकुली तुवरा तिक्ताकुटुकोष्णा विनाशयेत्। भोगिलूतावृश्चिकाखुवि{??}ज्वर-क्रमिव्रणान्”।
शब्दसागरः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रास्ना¦ f. (-स्ना)
1. A plant, (Mimosa octandra.)
2. Another plant, (the ser- pent ophioxylon.)
3. A sort of perfume. E. रस् to sound, नक् Una4di aff., and the vowel made long.
Apte[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रास्ना [rāsnā], [Uṇ.3.15]
N. of a plant; नाकुली सुरसा रास्ना...... Bhāva P.
A rope.
Ved. A girdle.
Monier-Williams[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रास्ना f. a girdle(See. रशना, रश्मि) VS. S3Br.
रास्ना f. the ichneumon plant Sus3r. S3a1rn3gS. ( v.l. राष्णा)
रास्ना f. N. of various other plants (Mimosa Octandra ; Acampe Papillosa etc. ) L.
रास्ना f. bdellium Bhpr.
Vedic Index of Names and Subjects[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Rāsnā in the Yajurveda Saṃhitās[१] and the Śatapatha Brāhmaṇa denotes ‘girdle’ or ‘band,’ like Raśanā and Raśmi.
vi. 2, 2, 25; 5, 2, 11, 13. Cf. rāsnāva, ‘girdled,’ iv. 1, 5, 19.
Vedic Rituals Hindi[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रास्ना स्त्री.
महावीर पात्र पर चारों ओर उकेरा गया रज्जु से मिलता-जुलता मिट्टी का किनारा, आप.श्रौ.सू. 15.3.3 (प्रवर्ग्य)।
- ↑ Vājasaneyi Saṃhitā, i. 30;
xi. 59;
xxxviii. 1;
Taittirīya Saṃhitā, i. 1, 2, 2;
iv. 1, 5, 4;
Kāṭhaka Saṃhitā, i. 2;
xvi. 5;
xix. 6, etc.