सामग्री पर जाएँ

राहुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

राहुः, पुं, (रह त्यागे + बहुलवचनात् उण् ।) त्यागः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (रहति गृहीत्वा त्यजति चन्द्रभिति । रह त्यागे + बहुलवचनात् उण् । इत्युज्ज्वलः । १ । १ ।) ग्रहविशेषः । तत्पर्य्यायः । तमः २ स्वर्भानुः ३ सैंहिकेयः ४ विधुन्तुदः ५ । इत्यमरः ॥ अस्र- पिशाचः ६ ग्रहकल्लोलः ७ सैंहिकः ८ उप- प्लवः ९ शीर्षकः १० उपरागः ११ सिंहिका- मूनुः १२ । इति शब्दरत्नावली ॥ कृष्णवर्णः १३ कवश्रः १४ । इति जटाधरः ॥ अगुः १५ असुरः १६ । इति ज्योतिस्तत्त्वम् ॥ तस्योत्- पत्त्यादिर्यथा, -- “सिंहिकायामथोत्पन्ना विप्रचित्तेश्चतुर्द्दश । शम्बः शम्बलगात्रश्च व्यङ्गः शाल्वस्तथैव च ॥ इल्वलो नमुचिश्चैव वातापी हसृपो जिकः । हरकल्पकलिनाभौ भौमश्च नरकस्तथा ॥ राहुर्ज्येष्ठश्च तेषां वै चन्द्रसूर्य्यप्रमर्द्दनः । इत्येते सिंहिकापुत्त्रा देवैरपि दुरासदाः ॥ दारुणाभिजनाः क्रूराः सर्व्वे ब्रह्मद्बिषस्तु ते । दशान्यानि सहस्राणि सैंहिकेयो गणः स्मृतः ॥ निहतो यामदग्न्येन भार्गवेण बलीयसा । स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ॥” इति वह्निपुराणे प्रजापतिसर्गनामाध्यायः ॥ * ॥ तस्य शिरश्छेदकारणं यथा, -- “देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि । प्रविष्टः सोममपिबत् चन्द्रार्काभ्याञ्च सूचितः ॥ चक्रेण क्षुरधारेण जहार पिबतः शिरः । हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् ॥ शिरस्त्वमरतां नीतमजो ग्रहमचीक्सृपत् । यस्तु पर्ब्बणि चन्द्रार्कावभिधावति वैरधीः ॥” इति श्रीभागवते ८ स्कन्धे ९ अध्यायः ॥ स च मलयपर्व्वतजातः । शूद्रवर्णः । द्बादशा- ङ्गुलपरिमाणः । कृष्णवर्णः । कृष्णवस्त्रः । सिंह- वाहनः । चतुर्भुजः । खड्गवरशूलचर्म्मधारी । सूर्य्यास्यः । अस्य अधिदेवता कालः । प्रत्यधि- देवता सर्पः । इति ग्रहयज्ञतत्त्वम् ॥ अस्य स्वरूपं शनिवत् । स च चण्डालजातिः । सर्पाकृतिः । अस्थिस्वामी नैरृतदिक्स्वामी च । इति बृहज्जातकादयः ॥ (राहुचारस्य फलाफलं बृहत्संहितायाः ५ अध्यायतो द्रष्ट- व्यम् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

राहुः [rāhuḥ], [रह्-उण् Uṇ.1.3]

N. of a demon, son of Viprachitti and Siṁhikā and hence often called Saiṁhikeya; ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः Śi.16.57; विधुरपि विधियोगाद् ग्रस्यते राहुणासौ H. [When the nectar, that was churned out of the ocean, was being served to the gods, Rāhu disguised himself and attempted to drink it along with them. But he was detected by the sun and the moon who informed Viṣṇu of the fraud. Visnu, thereupon, severed his head from the body; but as he had tasted a little quantity of nectar the head became immortal, and is supposed to wreak its vengeance on the sun and moon at the time of conjunction and opposition; cf. Bh.2.34. In astronomy Rāhu is regarded, like Ketu, as one of the nine planets, or only as the ascending node of the moon.]

An eclipse, or rather the moment of occultation.

Abandoning.

One who abandons.

The regent of the southwest quarter. -Comp. -उच्छिष्टम्, -उत्सृष्टम् = लशुन q. v. -गतः a. darkened, eclipsed; also राहुग्रस्त. -ग्रसनम्, -ग्रासः, -दर्शनम्, -पीडा, -संस्पर्शः an eclipse (of the sun or moon). -छत्रम् green ginger. -पीडा an eclipse. -भेदिन् m. N. of Viṣṇu. -रत्नम् a kind of gem (= गोमेद). -शत्रुः the moon; राहुशत्रोः प्रियां पत्नीं ...... ग्रहेणाभ्युदितेनैकां रोहिणीमिव पीडिताम् Rām.2.114.3. -सूतकम् 'the birth of Rāhu',i. e. an eclipse (of the sun or moon); Y.1.146; cf. Ms.4.11. -हन् m. N. of Kriṣṇa; L. D. B.

"https://sa.wiktionary.org/w/index.php?title=राहुः&oldid=218643" इत्यस्माद् प्रतिप्राप्तम्