राहुचक्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राहुचक्रम्, क्ली, (राहोश्चक्रम् ।) रव्यादिसप्त- वारेषु अश्वगत्या वामावर्त्तेन यामार्द्धं प्राप्य सप्तदिक्षु राहोर्गमनम् । यथा, -- “पश्चादर्के विधौ वह्नौ सौम्यां ज्ञे वायवे कुजे । रक्षोदिशि भृगौ याम्यां गुरावीशे शनौ दिने । राहुर्भ्रमति यामार्द्धादश्वगत्या च वामतः ॥ द्यूते युद्धे विवादे च यात्रायां सम्मुखं स्थितम् । राहुं विवर्ज्जयेद्यत्नाद्यदीच्छेत् कर्म्मणः फलम् ॥” इति सत्कृत्यमुक्तावली ॥ * ॥ राहुकालानलचक्रं यथा, -- “तस्य चक्रं प्रवक्ष्यामि राहुकालानलाख्यकम् । शलाकासप्तकं चक्रं ईशादौ कृत्तिकादिकाः ॥ यत्र ऋक्षे स्थितो राहुर्वदनं तद्विनिर्द्दिशेत् ॥ मुखात् पञ्चदशे ऋक्षे तस्य पुच्छं व्यवस्थितम् । अष्टोत्तरशतं ख्याता जायन्ते यत्र केतवः ॥ व्याप्य तस्थुर्ज्जगत् सर्वं सहस्रार्कसमत्विषः । राहुभुक्तानि ऋक्षाणि जीवपक्षे त्रयोदश ॥ त्रयोदशैव भोग्यानि मृतपक्षे प्रकीर्त्तयेत् । मृतपक्षे मुखं तस्य गुदं जीवाङ्गमध्यगम् ॥ एवमङ्गद्वयो राहुर्ज्ञातव्यः स्वरपारगैः । जीवपक्षे क्षपानाथे मृतपक्षे रवौ स्थिते । तस्मिन् काले शुभा यात्रा विपरीते तु हानिदा ॥” इति स्वरोदयः ॥
