राहुवृहस्पतियोग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
राहुवृहस्पतियोगः, पुं, (राहुणा वृहस्पतेर्योगो मेलनम् ।) एकराशिस्थितगुरुराहुः । गुरु- चाण्डालियोग इति ख्यातः । तस्य काला- शुद्धिजनकत्वं यथा, भोजदेवव्यवहारसमुच्चये । “सर्व्वं कार्य्यं न कर्त्तव्यं गुरौ सिंहेऽस्तगेऽपि च । व्रतदीक्षे न कुर्व्वीत तमोयुक्ते बृहस्पतौ ॥” तमोयुक्ते राहुयुक्ते । व्रतदीक्षे इति नित्येतर- वैदिककर्म्मोपलक्षणम् । तथा च स्मृतिसारे ज्योतिषम् । “एकराशौ स्थितौ स्यातां यदि राहुवृहस्पती । विवाहव्रतयज्ञादि सर्व्वं तत्र परित्यजेत् ॥” मलमासाद्युपक्रम्य भविष्ये । “ऋक्षभेदेऽप्येकराशौ सम्पर्को यदि वानयोः । गुरो राहोरपि तथा त्यजेद्विद्बान्न संशयः ॥” अत्र गुरोर्लज्जितत्वं हेतुः । “यत्र यत्र स्थितो जीवस्तमोयोगेन लज्जते । उपहासाय किं न स्यादसत्सङ्गो मनीषिणाम् ॥” इति मलमासतत्त्वम् ॥ * ॥ अस्य प्रतिप्रसवो यथा, -- “कर्णाटनाटाङ्गकलिङ्गदेशे बृहस्पती राहुयुतो विरुद्धः । शेषेषु देशेषु न चास्ति दोषः सर्व्वत्र कार्य्यं मुनयो वदन्ति ॥” इति बृहद्राजमार्त्तण्डधृतवचनमिति केचिद्- वदन्ति ॥
