रिङ्गणम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रिङ्गणम्, क्ली, (रिङ्ग + ल्युट् ।) स्खलनम् । इत्य- मरः ॥ “द्वे धर्म्माद्युपचिताद्प्रतिष्ठायां स्वकीय- विधानादन्यथाभावे इत्यर्थः । औचित्यात् पिच्छिलादेश्च स्खलने । इति रमानाथः ॥ धर्म्मविलङ्घनं रिङ्गणमिति स्वामी ॥ बालानां हस्तपादाभ्यां चलनं रिङ्गणम् । पिच्छिलादौ पतनं स्खलनमित्यन्ये । एतन्मते भेदेऽप्यभेदोप- चारेण समे इत्युक्तम् । रग रिग लिगि गतौ अनट् । रिङ्खणमिति पाठे रखि रख रिखि सर्पणे इत्यस्य रूपम् ।” इति भरतः ॥
