रिच
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रिच, कि सम्पर्कवियोगयोः । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-पर०-अक०-सेट् ।) कि- रेचयति रेचति । रिङ्क्ते रिपुर्यदाक्रान्तो धनैर्म- न्त्रैश्च रेचति । रेचयन्ति च तन्नार्य्य इति हलायुधः । इति दुर्गादासः ॥
रिच, इर् ध ञ औ विरेके । इति कविकल्पद्रुमः ॥ (रुधा०-उभ०-अक०-अनिट् ।) विरेकः पौनः- पुन्येन पुरीषोत्सर्गः । इति चतुर्भुजः । इर्, अरिचत् अरैक्षीत् । घ, ञ, रिणक्ति रिङ्क्ते अतिसारकी । औ, रेक्ता । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रिच¦ विरेके (अतिशय पुरीषोत्सर्गे) रुघा॰ उम॰ सक॰ अनिट्। रिणक्ति रिङ्क्ते इरित् अरिचत् अरैक्षीत् अरिक्त। अति + अतिक्रम्य स्थिते आधिक्येन स्थितौ अक॰। अतिरेकःवि + अति भेदे तदसत्त्वे तदसत्त्वरूपे पदार्थे च व्यतिरेकः।
